Book Title: Saptapadarthi
Author(s): Shivadityacharya, Jinvardhansuri, J S Jetly
Publisher: L D Indology Ahmedabad

View full book text
Previous | Next

Page 55
________________ ३० सप्तपदार्थी उभयानानि पक्षधर्मत्वम्, सपक्षे सत्त्वम्, विपक्षाव्यावृत्तिः, __अबाधितविषयत्वम, असत्प्रतिपक्षत्वं चेति ।।६९।। उभयोः पूर्वोक्तयोः स्वार्थपरार्थयोरङ्गान्यवयवाः 'उभयाङ्गानि' । एतानि पञ्च उभयत्रापि विलोक्यन्त इत्यर्थः । प्रतिज्ञादीनि पञ्च परार्थोपयोगिन्येव तेषां वचनस्वरूपत्वात्, स्वार्थलिङ्गस्य वचनानपेक्षत्वादिति । पच्यते इति पक्षो रूढत्वात् प्रतिज्ञास्थानं शब्दादिः, तस्य धर्मः, तत्र धर्मतया आधेयरूपतया व्याप्य वर्तमानः तस्य भावः ‘पक्षधर्मत्वम्' । कोऽर्थः ? पक्षे हेतुर्व्याप्य वर्तमानो विलोक्यते न पुनरनित्य: शब्द: आकाशत्वादितिवदविद्यमानः । अविद्यमानत्वेऽसिद्धदोषेण दुष्टत्वापत्तेः । इत्येकमङ्गम् । सपक्षे दृष्टान्ते सत्त्वं विद्यमानत्वं न पुनरनित्यः शब्दः शब्दत्वाद् घटवदित्यविद्यमानत्वम् । अविद्यमानत्वे विरुद्धानध्यवसितदोषाभ्यां दुष्टत्वापत्तेः । ___ ननु हेतुः पक्षे वर्तमानो विलोक्यते सपक्षेऽपि । तत्कुत एकत्र धर्मत्वमपरत्र च सत्त्वमिति भेदेनोक्तमिति चेत् ? उच्यते-पक्षधर्मत्वं पक्षे व्याप्यवृत्तित्वं न पुनः पक्षैकदेशवृत्तित्वेन साध्यसिद्धि:, यथा नित्यानि वस्तूनि निष्क्रियाणि अमूर्त्तत्त्वादिति । अत्र सर्वेषां नित्यानां पक्षीकारादमूर्त्तान्याकाशादीनि, मूर्त्तानि परमाण्वादीनि क्रियावन्ति । तत्रामूर्त्तत्वादिति हेतुराकाशादिष्वस्ति पक्षैकदेशे परमाण्वादिषु नास्तीति । सत्त्वं पुनर्विद्यमानतामात्रम् । सपक्षे व्यापिनः सपक्षैकदेशवृत्तेश्च हेतोः सम्भवात् । तत्र शब्दाऽनित्यत्वे कृतकत्वादि: सपक्षे व्यापकः । सपक्षैकदेशवृत्तिर्यथा अमूर्त: शब्दो गुणत्वाद्रूपवदित्यत्र अमूर्त्ता रूपादयः, आकाशकर्मादयश्च सपक्षाः, तत्र 'गुणत्वात्' इति हेतुरेकदेशे रूपादिष्वस्ति आकाशादिषु च नास्तीति । एवं द्वितीयमङ्गम् । विपक्षात्साध्यरहितात् स्थानाद्व्यावृत्तिनियमेन अवर्तमानत्वम्, न पुनरनित्यः शब्दः प्रमेयत्वादितिवद् विपक्षेऽपि वर्तमानत्वम् । वर्तमानत्वेऽनैकान्तिकत्वापत्तेः, केवलविपक्षवर्तित्वे विरुद्धत्वापत्तेश्च । इति तृतीयमङ्गम् । ____ अबाधितो वस्तुग्राहकप्रमाणेन प्रत्यक्षादिनाऽनिराकृतो विषयः साध्यं यस्य सोऽबाधितविषयस्तस्य भावस्तत्त्वम्, न पुनः शीतोऽग्निर्दाहकत्वाद्धिमवत् इतिवत्प्रत्यक्षबाधितः । नापि ब्राह्मणेन सुरा पेया, द्रवद्रव्यत्वात् क्षीरवद् इत्यागमबाधितः । नापि-पृथिवीपरमाणवोऽनित्याः पाकजगुणाधिकरणत्वाद् घटवत्, अत्र प्रतिपन्थ्यनुमान पृथिवीपरमाणवो नित्या निरवयवद्रव्यत्वाद् आकाशवदितिवत् सत्प्रतिपक्षो हेतुः-वक्तव्यः । इति पञ्चममङ्गम् । 'च'कारः पुनरर्थः 'इति'शब्दः परिसमाप्त्यर्थः ।।६९।। एतेषु अन्यतरभूषणेन रहितो हेतुरहेतुः स्यात् । भूषणानां दूषणपरिहारज्ञानपूर्वकत्वात् । प्रस्तावाद् दूषणानि प्रकटीकरोति Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122