Book Title: Saptapadarthi
Author(s): Shivadityacharya, Jinvardhansuri, J S Jetly
Publisher: L D Indology Ahmedabad

View full book text
Previous | Next

Page 61
________________ सप्तपदार्थी ___ अन्ये' स्वाश्रयव्यापकाः ।।१०।। 'अन्ये' एतेभ्योऽवशिष्टा रूपादयो द्वादशगुणा 'स्वाश्रयव्यापकाः' एव ।।९० ।। अथ कर्मणां विभागमाचष्टे उत्क्षेपणादयो विहितनिषिद्धोदासीनरूपाः ।।९१।। 'उत्क्षेपणादयः' विहितरूपाः पञ्च, निषिद्धरूपाः पञ्च, उदासीनरूपाः पञ्च, इति पञ्चदश भवन्ति इति । तद्यथा-उत्क्षिप्यते वस्तूर्ध्वदेशे क्षिप्यतेऽनेनेत्युत्क्षेपणम् । तत् क्वचिद्विहितं पुण्योपचयहेतुर्विधितः प्राप्तम; यथा वेदोच्चाराद्यर्थं हस्तोत्क्षेपणम् । क्वचित्प्रतिषिद्धं पापहेतुर्भवति यथा जीवाभिघातार्थं लकुटोत्क्षेपणम् । क्वचिदुदासीनं पुण्यपापयोरहेतुः, यथा शिरःकण्डूयनाद्यर्थं लकुटोत्क्षेपणम् । 'आदि' शब्दाद् अपक्षेपणाकुञ्चनप्रसारणगमनादीनि गृह्यन्ते । तत्रापक्षिप्यते वस्तु अधोऽनेनेत्यपक्षेपणम् । क्वचिद्विहितं यथा देवादिनमस्यार्थं शिरोऽवनामः । क्वचित्प्रतिषिद्धं यथा जीवघाताय मुशलाद्यपक्षेपणम् । क्वचिदुदासीनं यथा गच्छतः पुरुषस्योपरिपादापक्षेपणम् । आकुञ्च्यते सङ्कोचं वस्तु नीयतेऽनेनेति आकुञ्चनम् । तत् क्वचिद्विहितं यथा जीवाकुलायामिलायां जीवरक्षणार्थं शरीरसङ्कोचनम् । प्रतिषिद्धं यथा चौर्याय प्रविशतो विवरादौ स्वावयवसङ्कोचनम् । उदासीनं यथा स्ववस्त्रादिसङ्कोचनम् । प्रसार्यते सङ्कुचितं वस्तु विस्तारं नीयतेऽनेनेति प्रसारणम; तत् क्वचिद्विहितं यथा देवपूजार्थं हस्तप्रसारणम् । प्रतिषिद्धं च प्रतिग्रहाद्यर्थं हस्तप्रसारणम्। उदासीनं स्ववस्त्रादिप्रसारणम् । गम्यते स्थानान्तरमनेनेति गमनम् । तत् क्वचिद्विहितं यथा देवयात्रार्थम् । प्रतिषिद्धं यथा परदारगमनार्थम् । उदासीनं यथा भोजनार्थं गमनमिति । एवं पञ्चसु कर्मसु प्रत्येकं भेदत्रयसम्भवात् पञ्चदश भेदा भवन्ति ।।९१।। अथ सामान्यभेदावाविर्भावयति सामान्य जातिरूपमुपाधिरूपं च ।।९२ ।। जातिरेव रूपं स्वरूपं यस्य तत् 'जातिरूपम्' । तथा 'उपाधिरूपम्' अपि।।९२ ।। जातिः किमुच्यते इत्याशङ्क्याह जातिः सत्ताद्रव्यत्वगुणत्वकर्मत्वादि ।।९३ ।। जातिः सार्वदिकं सामान्यं गमनादिक्रियानिरपेक्षं वस्तु स्वाभाविकम् । तत्र सत्ता-यस्याः सकाशात् 'सत्' 'सत्' इति प्रत्ययो भवति । पृथिव्यादिषु 'द्रव्यं' 'द्रव्यम्', गुणेषु 'गुणः' 'गुणः', उत्क्षेपणादिषु 'कर्म' 'कर्म' इति प्रत्यया भवन्ति, तद् द्रव्यत्वं गुणत्वं कर्मत्वम् आदिशब्दात् पृथिवीत्वं घटत्वं गोत्वमित्यादि ।।९३ ।। १. सङ्कुचितं वस्तु-अ. १ । २. सङ्कुचितं तं वस्तु अ. १ । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122