Book Title: Saptapadarthi
Author(s): Shivadityacharya, Jinvardhansuri, J S Jetly
Publisher: L D Indology Ahmedabad

View full book text
Previous | Next

Page 59
________________ सप्तपदार्थी अप्सु द्रव्योत्पत्तेरनन्तरं द्वितीयक्षणे एवोत्पद्यते; द्रव्यविनाशानन्तरं च विनश्यति नार्वाग; तस्मादप्सु सांसिद्धिकं द्रवत्वमिति । निमित्तादग्निसंयोगादेर्जातं नैमित्तिकं, यथा पार्थिवं घृतादि, तैजसं सुवर्णादि स्वभावादद्रवमपि वह्निसंयोगादिनिमित्ताद् द्रवीभवति द्रव्यनाशादर्वागपि पुनः पिण्डीभूतमद्रवस्वभावं स्यादिति नैमित्तिकं द्रवत्वं पृथिव्यां तेजसि च स्थितमिति ।।८।। __ अथ स्वाभाविकद्रवत्ववतीष्वेवाप्सु स्वाभाविकः स्नेहः स्यादिति द्रवत्वानन्तरमुपन्यस्तस्य स्नेहस्य भेदावाह स्नेहः स्वाभाविक औपाधिकश्च ।।८१।। स्निह्यते सङ्गृह्यते रेवादिकमनेनेति 'स्नेहः' । स्वभावाद्भवः ‘स्वाभाविकः' यावद्रव्यभावीत्यर्थः, यथा जले । उपाधेर्जलपरमाणुसंयोगाद् भवः 'औपाधिकः' यथा सलिलपरमाणुनिष्ठोऽपि स्नेहः संयोगेन मिश्रीभूतत्वात् पार्थिवघृतादिनिष्ठः प्रतीयते । ननु घृतादिषु स्वाभाविक एव स्नेहः किं नोच्यते इति चेत् ? न, घृतादि स्नेहविकलम्, पार्थिवत्वात्, लोष्ठवत्। अथवा भौमाग्नीन्धनत्वात् तृणादिवदिति, प्रमाणबाधितत्वात् । प्रतीयते च स्नेहस्तस्मादौपाधिकः कल्प्यते "मुख्यार्थबाधे उपाधिः' इतिवचनादिति ।।८१ ।। अथात्मनिष्ठं संस्कारं भिनत्ति संस्कारो वेगो भावना स्थितिस्थापकश्च ।।२।। संस्क्रियते पूर्वावस्थातः विशेष आपद्यतेऽनेनेति 'संस्कारः' । स त्रिविधो भवतीति गम्यते । तत्र धावतः पुरुषस्य शीघ्रगमनोत्पाद्यो यो जवो भवति, धावन् पुमान् स्थातुमना अपि येन गुणेन स्थातुं न शक्नोति स 'वेगः' । भावनं 'भावना' चिन्तनं स्मरणमित्यर्थः । तस्योत्पादकः संस्कारोऽपि 'भावना', कारणे कार्योपचारात् । स्थितौ स्वाभाविक्यामवस्थायां स्थापयतीति 'स्थितिस्थापकः' यथा श्वपुच्छिका स्वभाववक्रा नलिकान्तः प्रक्षिप्य षण्मासानन्तरं निष्कासिता येन गुणेन वक्रैव भवति स स्थितिस्थापक इति । वेग-स्थितिस्थापकौ आद्यचतुष्टयद्रव्यनिष्ठी, भावना चात्मनिष्ठा ।।८२।। अथावशिष्टात्मगुणौ भेत्तव्याविति धर्माधर्मयोर्मध्ये पूर्व सुखसाधकत्वादिष्टं धर्मं भिनत्ति धर्मः प्रवर्तको निवर्तकश्च ।।८३।। धरति दुःखेभ्यस्त्रायत इति 'धर्मः' । प्रवर्त्तयति संसारे तीव्र भ्रमयति इति 'प्रवर्तकः' यथा पापानुबन्धिना धर्मेण लक्ष्म्यो भवन्ति । तासां मदेन च पापकर्माणि करोति । ततः सुचिरं संसारे बम्भ्रमीति । संसारान्निवर्त्तयतीति 'निवर्त्तकः' यथा तत्त्वज्ञानोत्पाद्येन धर्मेण पापक्षयो भवति, धर्मस्य च भोगेन क्षयः, ततो मुक्तिः । “पाप-पुण्यक्षये मोक्षः” इति वचनादिति निर्वृतेर्धर्ममूलत्वान्निवर्तक इति ।।८३।। १. श्चेति क. । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122