Book Title: Saptapadarthi
Author(s): Shivadityacharya, Jinvardhansuri, J S Jetly
Publisher: L D Indology Ahmedabad

View full book text
Previous | Next

Page 60
________________ सप्तपदार्थी अथ तद्विपरीताधर्मभेदौ स्फुटीकरोति अधर्मः फलावसानो नमस्कारादिनाश्यश्च ।।८४ ।। न धर्मः 'अधर्म' पापम्, फलेन दुःखभोगेनाऽवसानः पर्यन्तो विनाशो यस्य सः 'फलावसानः’ यथा - अधर्म्यं हिंसादिकं विधाय मृत्वा नानादुर्योनिषु च्छेदनभेदनादीनि फलानि भुक्त्वा तेन पापेन जीवो मुच्यते, न पुनः दुःखभोगं विना । तथा नाश्यते इति नाश्यः । योऽधर्मः तपश्चरणादिना क्षीयते, न पुनरात्मफलेन दुःखभोगेन, यतोऽतिविहितानेकपातकोऽपि तपोभिः संशोधितात्मा नोऽधर्म्मफलानि भुङ्क्ते इत्यर्थः ।।८४।। अथावशिष्टस्य शब्दस्य भेदौ स्पष्टयति शब्दो वर्णात्मकोऽवर्णात्मकश्च ।।८५ ।। वर्णा अकारादयस्तदात्मको यथा विदग्धवचनम् । 'अवर्णात्मकः ' भेर्यादिशब्दः ||८५ ।। एवं गुणभेदाभिधाय नित्यानित्यविभागमाह— अत्र गन्ध-संयोग-विभाग- परत्वाऽपरत्व - सुख-दुःख- द्वेषसंस्कार - धर्माऽधर्म - शब्दा अनित्यैकरूपाः ।।८६ ।। अत्र एतेषु गन्धादयो गुणा नित्येषु परमाण्वाकाशादिषु स्थिताः, अनित्येषु द्व्यणुकघटादिषु स्थिताः सर्वत्राऽनित्यमेव एकं-रूपं स्वरूपं येषां ते 'अनित्यैकरूपाः' । यावद्द्रव्यभावित्वात् न च नित्या इत्यर्थः । पार्थिव - - परमाणुषु गन्धस्य पाकजत्वान्न नित्यत्वम् अपरपरमाणुषु तस्यैवाभावादिति ।। ८६ ।। अन्ये' नित्यानित्यरूपाः ।। ८७ ।। ३५ 'अन्ये' पूर्वोक्तेभ्योऽवशिष्टाः रूप- स्पर्श - रस - सङ्ख्या - परिमाण - पृथक्त्व - बुद्धीच्छा - प्रयत्नगुरुत्व-द्रवत्व-स्नेहाख्याः । बुद्धीच्छाप्रयत्नवर्जा नित्येषु नित्यरूपाः, अनित्येषु द्व्यणुकादिषु अनित्यरूपाः । बुद्धीच्छा - प्र - प्रयत्ना अस्मदादिनिष्ठा अनित्या मुक्ततायामेतेषामुच्छेदात् । ईश्वरनिष्ठाः पुनर्नित्या एव तेषां सार्वदिकत्वात् ।।८७।। अथ व्यापकाव्यापकभेदावाह संयोग-विभाग-सुख-दुःख- द्वेष- संस्कार - धर्मा - Sधर्म - शब्दा अव्यापकाः ||८८ ।। एते संयोगादयः, अव्यापकाः स्वाश्रयैकदेशवृत्तयः ||८८ || बुद्धीच्छा प्रयत्ना उभयरूपाः ।। ८९ ।। स्वाश्रयैकदेशवृत्तयोऽस्मदादिषु स्वाश्रयव्यापका ईश्वरे । ८९ ।। १. अन्ये तु क. । २. संयोगादिशब्दान्तास्तु अव्यापका एव - क. । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122