________________
सप्तपदार्थी
अथ तद्विपरीताधर्मभेदौ स्फुटीकरोति
अधर्मः फलावसानो नमस्कारादिनाश्यश्च ।।८४ ।।
न धर्मः 'अधर्म' पापम्, फलेन दुःखभोगेनाऽवसानः पर्यन्तो विनाशो यस्य सः 'फलावसानः’ यथा - अधर्म्यं हिंसादिकं विधाय मृत्वा नानादुर्योनिषु च्छेदनभेदनादीनि फलानि भुक्त्वा तेन पापेन जीवो मुच्यते, न पुनः दुःखभोगं विना । तथा नाश्यते इति नाश्यः । योऽधर्मः तपश्चरणादिना क्षीयते, न पुनरात्मफलेन दुःखभोगेन, यतोऽतिविहितानेकपातकोऽपि तपोभिः संशोधितात्मा नोऽधर्म्मफलानि भुङ्क्ते इत्यर्थः ।।८४।।
अथावशिष्टस्य शब्दस्य भेदौ स्पष्टयति
शब्दो वर्णात्मकोऽवर्णात्मकश्च ।।८५ ।।
वर्णा अकारादयस्तदात्मको यथा विदग्धवचनम् । 'अवर्णात्मकः ' भेर्यादिशब्दः ||८५ ।। एवं गुणभेदाभिधाय नित्यानित्यविभागमाह—
अत्र गन्ध-संयोग-विभाग- परत्वाऽपरत्व - सुख-दुःख- द्वेषसंस्कार - धर्माऽधर्म - शब्दा अनित्यैकरूपाः ।।८६ ।।
अत्र एतेषु गन्धादयो गुणा नित्येषु परमाण्वाकाशादिषु स्थिताः, अनित्येषु द्व्यणुकघटादिषु स्थिताः सर्वत्राऽनित्यमेव एकं-रूपं स्वरूपं येषां ते 'अनित्यैकरूपाः' । यावद्द्रव्यभावित्वात् न च नित्या इत्यर्थः । पार्थिव - - परमाणुषु गन्धस्य पाकजत्वान्न नित्यत्वम् अपरपरमाणुषु तस्यैवाभावादिति ।। ८६ ।। अन्ये' नित्यानित्यरूपाः ।। ८७ ।।
३५
'अन्ये' पूर्वोक्तेभ्योऽवशिष्टाः रूप- स्पर्श - रस - सङ्ख्या - परिमाण - पृथक्त्व - बुद्धीच्छा - प्रयत्नगुरुत्व-द्रवत्व-स्नेहाख्याः । बुद्धीच्छाप्रयत्नवर्जा नित्येषु नित्यरूपाः, अनित्येषु द्व्यणुकादिषु अनित्यरूपाः । बुद्धीच्छा - प्र - प्रयत्ना अस्मदादिनिष्ठा अनित्या मुक्ततायामेतेषामुच्छेदात् । ईश्वरनिष्ठाः पुनर्नित्या एव तेषां सार्वदिकत्वात् ।।८७।।
अथ व्यापकाव्यापकभेदावाह
संयोग-विभाग-सुख-दुःख- द्वेष- संस्कार - धर्मा - Sधर्म - शब्दा अव्यापकाः ||८८ ।। एते संयोगादयः, अव्यापकाः स्वाश्रयैकदेशवृत्तयः ||८८ ||
बुद्धीच्छा प्रयत्ना उभयरूपाः ।। ८९ ।। स्वाश्रयैकदेशवृत्तयोऽस्मदादिषु स्वाश्रयव्यापका ईश्वरे । ८९ ।। १. अन्ये तु क. । २. संयोगादिशब्दान्तास्तु अव्यापका एव - क. ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org