Book Title: Saptapadarthi
Author(s): Shivadityacharya, Jinvardhansuri, J S Jetly
Publisher: L D Indology Ahmedabad

View full book text
Previous | Next

Page 38
________________ 'सप्तपदार्थी विषयो घटादिः ।।१५।। शरीरेन्द्रियाभ्यां व्यतिरिक्तं जीवस्य भोगनिमित्तं वस्तु स 'विषयः' । स क इत्याह 'घटादिः' । 'घट:' पृथुबुध्नोदराकारः कुम्भापरपर्यायो लोके व्यवह्रियमाणः पदार्थः । 'आदि' शब्दाद् वनस्पतिपाषाणकाष्ठमृत्तिकादीनां परिग्रहः ।।१५।। प्रथमद्रव्यं पृथिवीलक्षणं प्रभिद्य द्वितीयमाह । आपो भिनत्ति आपोऽपि' परमाणुलक्षणाः कार्यलक्षणाश्च ।।१६।। 'आपः' पानीयवाचकं बहुवचनान्तं स्त्रीलिङ्गमेव । जलस्य नामैतद्वर्तते। 'अपि' शब्दः पूर्वस्याः पृथिव्या भेदैः सह समानताख्यापनार्थः । तथा च न केवलं पृथिव्येव परमाणुलक्षणेत्यादिभेदभिन्ना, किन्त्वाऽऽपोऽपि तथैवेत्यर्थः ।।१६।। किं स्वरूपास्ताः परमाणुलक्षणाः किंस्वभावाश्च कार्यलक्षणा इत्याशङ्याह परमाणुलक्षणा नित्याः कार्यलक्षणास्त्वनित्याः ।।१७।। व्याख्या पूर्ववत् ।।१७।। ता अपि शरीरेन्द्रियविषयरूपाः ।।१८।। परमाणुलक्षणानामपां विशेषाणामानन्त्येन वक्तुमशक्यत्वात् प्रभेदानां चावर्त्तमानत्वात् प्रथमभेदमवगणय्य द्वितीयभेदं भिनत्ति । रूपशब्दस्य सर्वत्रापि सम्बन्धः पूर्ववत् । ता अपि कार्यलक्षणा आपोऽपि शरीररूपा इत्यादित्रिप्रकारा भवन्ति ।।१८।। तदाप्यं शरीरं क्कास्तीत्याह शरीरं वरुणलोके ।।१९।। नन्वपां सर्वथा द्रवरूपत्वेन तदारब्धं शरीरं नोपभोगादिसमर्थं स्यात्, जलबुबुदवद् इति चेत्; न, तत्र' पार्थिवावयवानामुपष्टम्भक्त्वात् पार्थिवावयवसंयोगेन प्रतिबद्धे द्रवत्वे आप्यावयवारब्धमपि शरीरं विशिष्टभोगसमर्थं भवतीति ।।१९।। द्वितीयभेदमाप्यमिन्द्रियमाह १. आपोऽपि द्विविधाः नित्याश्च क. । आपो नित्या अनित्याश्च नि. । २. नित्यजललक्षणम्: अ. १ पा. टि. । ३. तेनारब्धं तदा...अ. १ पा. टि. | १. जलोत्पन्नशरीरे. अ. १ पा. टि. । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122