Book Title: Saptapadarthi
Author(s): Shivadityacharya, Jinvardhansuri, J S Jetly
Publisher: L D Indology Ahmedabad

View full book text
Previous | Next

Page 47
________________ सप्तपदार्थी उच्यते-शरीरसम्बन्धेन ज्ञानवत्वं' विवक्षितं न पुनः कस्यचिदुक्तव्युत्पत्तिमात्रात् किञ्चिज्ज्ञत्वं मुक्तात्मनामपि शरीरेण पूर्वसम्बन्धे सत्येव ज्ञानवत्त्वात् । तेन तेषां क्षेत्रज्ञतेति । उभयत्रैवकारौ प्रकारान्तरत्वनिरासार्थौ । अत्रात्मैकत्ववादवादिनो वावदूका वदन्ति–ननु 'क्षेत्रज्ञा अस्मदादयोऽनन्ता एव' इति न मृष्यामहे श्रीजैनवत्त्वया शरीरमात्रव्यापकत्वानङ्गीकारात, आत्मनो विभुत्वाभिधानाच्चानन्त्यप्रतिपादनस्याप्रामाणिकत्वात् । आत्मा विभुश्चेद् एक एव संगच्छते । तथाहि—विवादाध्यासितः आत्मा वास्तवैकभेदो विभुत्वादाकाशवत् । अथ तव' मतम्-आत्मन एकत्वे एकत्र जनने सर्वशरीरेषूत्पत्तिरेव, विनाशे विनाश एव स्यात्। तन्न किञ्चित्, एकस्याप्याकाशस्य घटादिसंयोगोपाधिना एकस्य घटाकाशस्योत्पत्तावप्यपरस्य पटाकाशादेर्विनाशस्यापि सम्भवात् । न चाकाशे उत्पत्तिविनाशौ वास्तवौ स्त इति चेत् । अत्रापि समानम् । न च–एकस्य सुखित्वे सर्वत्र सुखित्वप्रसङ्गो दुःखित्वे तथात्वस्य-इति वाच्यम; एकस्यापि नभसः सुरनारिशब्दाधिकरणत्वेन मधुरगुणत्वस्य तत्कालमेवान्यत्र गर्दभ-शब्दाधिकरणत्वेन कठोरगुणत्वस्य च युगपदुपलम्भात् । तस्मादेक एव ब्रह्मस्वरूप आत्मेति सुस्थितम् । उक्तं च "एक एव हि भूतात्मा भूते भूते व्यवस्थितः । नानोपाधिवशान्नाना दृश्यते जलचन्द्रवत् ।। तथा च श्रुतिः–'एकमेवाद्वितीयं ब्रह्म नेह नानास्ति किञ्चन ।' . ' तत्राभिधीयते—नन्वात्मन ऐक्येऽन्यशरीरेऽनुभूतोऽर्थोऽन्यशरीरात्मना' कुतो न स्मर्यते ? शरीरभेदादिति चेत्, तर्हि बालशरीरानुभूतोऽर्थोऽपि वृद्धशरीरात्मना 'अहं बाल्ये सुख्यभुवम्' 'मयैवं दृष्टमासीत्' इत्यादिप्रकारेण कथं स्मर्यते, शरीरभेदस्य तत्रापि वर्तमानत्वात् ? एकमेव शरीरं बालवृद्धवयोवस्थायीति चेत्, न, बालशरीर-वृद्धशरीरे भिन्ने, भिन्नपरिमाणोपेतत्वात् घटशराववत् इति भेदावगमात् । आत्माऽनेकेत्वे प्रमाणमदः—विमतानामेतेषां शरीराणां भोक्ता एको न भवति, संस्काराव्यवच्छेदे अन्यशरीरानुभूतास्मारकत्वात् । योऽनेकशरीराणामेको भोक्ता सोऽन्यशरीरानुभूतस्मारको दृष्टो यथा बालवृद्ध-शरीरावस्थायी अहमितिप्रत्ययगम्यो मानसप्रत्यक्षो मदात्मेति केवलव्यतिरेकिणा हेतुना भेदसिद्धिरिति । यः पुनरात्मैकत्वे 'विभुत्वाद्' इत्युक्तो हेतुः स भेदे प्रमाणभावोपाधिना बाधित इति न साध्यसाधकः । यच्च श्रुतिवचनमैक्यख्यापकमुक्तं तदपि न, अभिप्रायापरिज्ञानादेव । इह लोके एकमेवाद्वितीयं १. ज्ञानवत्त्वं नाम किं ज्ञानात्यन्ताभावानधिकरणत्वं, त्रैकालिकाभावो ज्ञानस्य योऽयं तस्यानधिकरणत्वं अनाश्रयत्वं तद्विवक्षितम् अत्र अ. १ पा. टि. । २. किञ्चिदज्ञत्व अ. १ । ३. त्वयाऽतिशरीर अ. २ । ४. तवाभिप्रायः अ. १ पा. टि. । ५. 'रात्मा अ. १ । ६. चेत् । बाल अ. १ । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122