Book Title: Saptapadarthi
Author(s): Shivadityacharya, Jinvardhansuri, J S Jetly
Publisher: L D Indology Ahmedabad

View full book text
Previous | Next

Page 46
________________ सप्तपदार्थी आकाशादित्रयं वस्तुतस्त्वेकैकमेवोपाधिभेदानानाभूतम् ।।१०।। 'आकाशादित्रयम्' आकाशकालदिग्लक्षणं 'वस्तुतः' स्वरूपाद् ‘एकैकमेव' एकत्वसङ्ख्याधिकरणमेव, पूर्वोक्तभेदभिन्नं च 'उपाधिभेदात्' । तस्याकाशादित्रयस्य सत्त्वे यत्प्रमाणं तदने लक्षणावसरे निरूपयिष्यामः । आकाशादीना' वास्तवैकत्वे प्रमाणमदः-कालदिशौ वास्तवैकभेदे, असमवेतभावत्वे सति नित्यं विशेषगुणानधिकरणत्वात् समवायवत् । असमवेतेति विशेषणेन कार्यद्रव्यगुणकर्मसामान्यविशेषाणां व्युदासः, अभावस्य च 'भाव'शब्देन, शेषहेतुना तु परमाण्वात्ममनसामिति । समस्तविशेषगुणोच्छेदेनैव' मुक्तत्वाङ्गीकारान्मुक्तेन व्यभिचार इति चेत्; नित्यमिति पदेन तन्निषेधात् । न ते नित्यं सर्वदा विशेषगुणानधिकरणं पूर्वं विशेषगुणानां बुद्ध्यादीनां तेष्वाश्रितत्वात् । आकाशमपि वास्तवैकभेदम्, अनात्मत्वे सति विभुत्वात्कालवत् ।।४०।। अथाष्टमद्रव्यमात्मानं भिनत्ति आत्मा तु परमात्मा क्षेत्रज्ञाश्चेति द्विविधः ।।११।। कोऽसौ परमात्मा कोऽसौ क्षेत्रज्ञः । किं सङ्ख्याकः परमात्मा किं सङ्ख्याकश्च क्षेत्रज्ञ इत्याह परमात्मा' त्वीश्वर एक एव क्षेत्रज्ञा अस्मदादयोऽनन्ता एव ।।१२।। परम उत्कृष्टः सर्वज्ञः सर्वसामर्थ्यवान् सर्वदुःखरहित आत्मा ‘परमात्मा' । 'तु' शब्द: क्षेत्रज्ञात्मनः सकाशाद्विशेषख्यापनार्थः । स चेश्चरो भूभूधरादिकर्तृत्वेनानुमित ‘एक एव' । तस्य बहुत्वे विसदृशेच्छयैकस्य वस्तुनश्चिकीर्षा तदपरस्य नेति कदाचिदपि कार्योत्पत्तिर्न भवेत् । एकस्यैवेच्छां सर्वेऽप्यनुवर्त्तन्ते इति चेत्। तर्खेकस्यैव तस्येश्वरत्वं नापरेषां तदिच्छानुवर्तित्वाद् भृत्यवत् । वयमादयो येषां ते 'अस्मदादयः'। 'क्षेत्रज्ञाः' 'अनन्ताः' न विद्यतेऽन्तः पर्यवसानो(नं) गणनया येषां ते तथा; प्रजापतिदेवर्षिकीटिकाकुन्थुक पशुमनुष्यादयः सर्वेऽपि 'अस्मदादि' पदेन गृह्यन्ते । ननु मुक्तात्मा परमात्मा क्षेत्रज्ञो वा ? न परमात्मा, परमात्मनः ईश्वरादतिरिक्तस्य निषेधाभिधानात् । नापि क्षेत्रज्ञः समुच्छिन्नविशेषगुणमुक्तात्मनि बुद्धिगुणरहितत्वेन क्षेत्रं किञ्चिजानातीति क्षेत्रज्ञ इति व्युत्पत्त्या किञ्चिज्ज्ञत्वापरपर्यायस्य क्षेत्रज्ञत्वस्यासम्भवात् तस्मादयं तृतीयो भेदो वक्तव्य इति चेद् । १. त्रयं तु वस्तुन एकमेव क. । २. 'ष्यामः । आकाशादीनां वास्तवैकत्वे प्रमाणमदः कालदिशो वास्तवस्याकाशादित्रयस्य सत्त्वे यत् प्रमाणं तदने निरूपयिष्याम: आका' इति पाठः लेखकप्रमादवशात् समाविष्टः अ. १ प्रतौ । ३. वास्तव्येकत्वे अ. २ । ४. विशेषणोच्छेदेन अ. १ । ५. धात् । ते अ. १ । ६. मुक्तात्मानः अ. १ पा. टि. । ७. ईश्वर क. नि. । ८. गुणनयां अ. १ । ९. कीकिटिका. अ. १ । १०. विशेषण अ. २ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122