________________
१०८]
कलंकस्तोत्रम् -
उर्वश्यामुदपादि रागबहुलं चेतो यदीयं पुनः पात्रीदंडक - मंडलुप्रभृतयो यस्याकृतार्थस्थितिम् ॥ आविर्भावयितुं भवंति स कथं ब्रह्माभवेन्मादृशां क्षुत्तृष्णाश्रमरागरोगरहितो ब्रह्मा कृतार्थोऽस्तु नः ॥४॥ यो जग्ध्वा पिशितं समत्स्यकवलं जीव च शून्यं वदन्, कर्त्ता कर्मफलं न भुंक्त इति यो वक्ता स बुद्धः कथम् । यज्ज्ञानं क्षणवर्त्तिवस्तुसकलं ज्ञातुं न शक्तं सदा यो जानन्युगपज्जगत्त्रयमिदं साक्षात्स बुद्धो मम ॥ ५ ॥ :
लग्धरा छंदः ।
ईशः किं छिन्नलिंगो यदि विगतभयः शूलपाणिः कथं