Book Title: Sanskrit Jain Nitya Path Sangraha
Author(s): Pannalal Baklival
Publisher: Bharatiya Jain Siddhant Prakashini Sanstha

View full book text
Previous | Next

Page 165
________________ भावनाद्वात्रिंशतिका [५ संयोगतो दुःखमनेकभेदं यतोऽश्नुते जन्मवने शरीरी । ततस्त्रिधासौ परिवर्जनीयो, यियासुना निर्वृतिमात्मनीनाम् २८ सर्वं निराकृत्य विकल्पजालं संसारकान्तारनिपातहेतुम् । विविक्तमात्मानमवेक्ष्यमाणो निलीयसे त्वं परमात्मतत्त्वे ॥२९॥ स्वयं कृतं कर्म यदात्मना पुरा फलं तदीयं लभते शुभाशुभम् । परेण दत्तं यदि लभ्यते, स्फुटं स्वयंकृतं कर्म निरर्थकं तदा ॥ ३०॥ निजार्जितं कर्म विहाय देहिनो, न कोपि कस्यापि ददाति किंचन विचारयन्नेवमनन्यमानसः परो ददातीति विमुंच शेमुषीम् ॥३१॥

Loading...

Page Navigation
1 ... 163 164 165 166 167 168