Book Title: Sanghpati Rupji Vansh Prashasti
Author(s): Vinaysagar
Publisher: Rajasthan Prachyavidya Pratishthan
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
संघपति-रूपजी-वंश-प्रशस्तिः
११
wwviwww
त्यर्थः । किम्भूतः योषिज्जनः ? शौडीरसुदानशौण्ड:-पु० यो• मनोज्ञः । कथं ? गुणान् अगण्यान्-अधिकान् । अत्र कविराशक्य एवमाह-जना इति उदाहः । इतीति किम् ? तत एव रूडीनाम्न्या योषित एव, लोके रूडी त भाषा प्रवर्तते एव । यदीयमीदृशी नाऽभविष्यत्तहि मनोहरपर्याया त्रिलिङ्गा रूडीति भाषा लोके कथं अभविष्यत् ? इति । कथम्भूतस्य ? तस्य देवराजस्य प्रचण्डस्य--प्रता. पिनः 'प्रचण्डो दुर्वह श्वेतकरवीरे प्रतापिनि' इति श्रीधरः । पुनः कथम्भूतस्य? जनाजडस्य लोकेषु पण्डितस्य । इति काव्यद्वयार्थः ।।११-१२॥
- [इति ] देवराज श्रेष्ठिवर्णनम् । तदङ्गजन्माऽजितपद्मसमा, गोपालनामा स बभूव भूमौ । गोः पालकत्वादिव यं कवीन्द्राः, गोपाल'-जेतारमुदारमाहुः ॥१३॥ चित्तावनौ सर्वजनस्य शश्वत्, प्रारंस्त शस्तस्वगुणरनेकैः । परोपकारैः प्रचुरप्रकारैः, श्रेष्ठो' व्यभासिष्ट स यस्य नाम ।।१४॥' प्राविश्चकाराऽत्र हि विश्वरेताः, प्रियंवदं सर्वजनप्रियं च । विपश्चितःप्रोचुरिति क्षितो यं,पपौ जिनाज्ञां स चिरं च लोकान् ॥१५॥
ध्या-स गोपालः श्रोष्ठो चिरं जिनाज्ञां च-पुनः लोकान् पपौ-रक्ष । सः कः ? यं हि-निश्चितं, अत्र क्षिती-धरित्र्यां विश्वरेता:-ब्रह्मा प्रियंवदं च-पुनः सर्वजनप्रियमाविश्चकार इति विपश्चितः प्रोचुः ॥१५।।
[इति ] गोपालश्रेष्ठि वर्णनम् । आर्येव वर्या खलु शङ्करस्य, भार्याऽकदर्या वरयोषिदर्या । रराज राजूरितदुष्कृताजूस्तस्योदितानन्तविभूतिभाजः ॥१६।।
व्या.-सस्य गोपालस्य श्रेष्ठिनः राजूः-राजूनाम्नी भार्या रराज । कस्य केव ? खल-निश्चितं शङ्करस्य-शम्भोः प्रार्या इव-पार्वतोव । 'पार्योमाछन्दसोः' इति हैमानेकार्थः, दार्घस्वरादिरयम् । कथम्भूता पार्वती राजूश्च ? वर्या अकदर्या
१. भूपः। २. गोपालः ।
चित्ताऽवनी सर्वजनस्य शश्वत्प्रारंस्त शस्तस्वगुणैरनेकैः । परोपकारैः प्रचुरप्रकारः, श्रेष्ठी व्यासिष्ट स यस्य नाम ।।१५।।
For Private And Personal Use Only

Page Navigation
1 ... 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34