Book Title: Sanghpati Rupji Vansh Prashasti
Author(s): Vinaysagar
Publisher: Rajasthan Prachyavidya Pratishthan

View full book text
Previous | Next

Page 28
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सङ्घपति-रूपजी-वंश-प्रशस्तिः २३ एकत्रभूतान् परदेशसङ्घान्, स्वदेशसङ्घाश्च कृताऽनघोद्घान् ।' अमन्दताऽमन्दमना अमन्दः, श्रीसोमजीः सङ्घपतिः प्रमोदात् ॥८॥ मौहूत्तिकोक्त शुभलग्नयुक्त, शस्ते मुहूर्त सुदिने दिनेऽय । श्रीसोमजी: सद्विजिगीषु भूप, इव प्रतस्थे महतोत्सवेन ।।८।। निरीक्ष्यमाणोऽनिमिषाक्षिभिर्यो योषिज्जनानामिति चाननाब्जैः । संस्तूयमानस्सुतरां जय त्व - माधारभूतो जगतोऽसि यत्तत् ।।१०॥ द्रङ्गाऽध्वनि ध्वस्तसमस्तदुःखः, श्रेयोधिया स्वोयजयोदयाय । हस्तेन हस्ति स्थित इन्द्ररूपः, प्रोल्लालयल्लब्धधनो धनानि ||६|| स्तुतिव्रतैः सुन्दरनव्यनव्य-भोगावलीभिः खलु कथ्यमानाः । शृण्वन् कृतानेकजनप्रमोदाः, स्वोपार्जिताः सविरुदावलीश्च ॥१२॥ चतुभिः कलापकम् । अत्युज्ज्वलानध्वनि वल्गुशालीन्, सन्मुद्गदालीन् प्रचुराज्यनालीन् । नव्यान्नपक्वान्न सुतेमनालीन्. प्राभोजयत् सङ्घपतिर्नरालीः ॥१३॥ वातेरितात्यद्भुतपत्रगुच्छ-वृक्षा मनुष्या इव रोमगुच्छेः । अवीजयन्नध्वनि तं वजन्तं, निरोक्ष्य राजानमिवाऽवनीशम् ॥१४॥ केऽप्याऽऽतपत्रन्' पथि सान्द्रपत्राः, श्रान्तस्य तस्योपरि भूरुहोघाः । अमालिकन्' केऽपि च नव्यपुष्प-फलश्रियः पुष्पफलोपदाभिः ।।१५।। आरण्यतिर्यञ्च इति स्ववाण्याऽब्रुवन्निवाऽद्यैव वयं हि धन्याः । पुण्यात्मनोऽस्याऽऽस्य कुशेशयं यत्, सम्प्रत्यपश्याम निकामकाम्यम् ।।१६।। मुदोन्मुख श्चञ्चुमुखाश्च केचित्, तिर्यञ्च उच्चरवचन्नि-वेति । मनुष्यरूप समवाप्य यात्रां, चिकीर्षु रेषोऽद्भुतसम्पदिन्द्रः ।।६।। १. कृतो अनघः पापरहित: सद्घः अञ्जलि यस्ते तान् । 'उद्घो हस्तपुटे' इत्यनेकार्थः । हस्तपुटः अञ्जलिः' इति तट्टोका। २. मदुइ स्तुतिमोदमदस्वप्न गतिः' इति घातुपारायण: ३. अमन्द:-नीरोगः अनलस: भाग्यवान् वा मन्दो मृढे शनो रोगिण्यल से भाग्यवजिते इत्यनेकार्थः। ४. वर्ण्यमानाः । ५. प्रातपत्रन् आतपत्राणीवाचरन् । ६. अमालिकन् मालिका इव पाचरन् । कर्तुः विवप इति पिवपि ह्यस्तन्यो प्रथमपुरुषबहुवचनाऽनोरूपम् । ७. प्रवचन इति वचक् परिभाषणे इत्यस्य यस्तभ्याम ऽनोरूपम् । For Private And Personal Use Only

Loading...

Page Navigation
1 ... 26 27 28 29 30 31 32 33 34