Book Title: Sanghpati Rupji Vansh Prashasti
Author(s): Vinaysagar
Publisher: Rajasthan Prachyavidya Pratishthan
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सङ्घपति-रूपजी-वंश-प्रशस्ति:
सेवावियोगोऽस्य जिनस्य न स्याद्, बुद्धयोति देवा भुवनाधिपाद्याः । यत्र स्थिता भान्ति हि चित्रदम्भाद्, भूस्थं निरोक्ष्येति वदन्ति 'तज्ज्ञाः
॥१२८।। श्रीसोमजीकारित-श्रोमदादोश्वरजिनभूमध्य स्थितचैत्यवर्णनम् । तस्योपरि ब्रह्मशरीरतीदं, तद्भाति , यत् शान्तिजिनेशचैत्यम् । चतुर्मुख हेमघटोत्तमाङ्ग, चतुःसुवर्णाश्रितकुम्भवेदम् ।।१२।। ____घ्या.-तदिदं शान्ति जिनेशचंत्यं भाति । क्व? तस्य भूमिगृहश्रीपदादिदेवचंत्यस्य उपरि । तदिति किम् ? यत्शान्तिजिनेशचैत्यं ब्रह्मशरीरति-ब्रह्मशरीरमिवाचरति । कथम्भूतं शान्तिजिनेश चैत्यम् ? चतुर्मुख-चतुरिम् । कोदश ब्रह्मशरीरम ? चतुर्मुखं प्रसिद्धम् । कथम्भूतं शान्तिजिनेशचंत्यम् ? हेमघटोत्तमाङ्ग स्वर्णकलशाभिरामाङ्ग, यद्वा हेमघट एव-पञ्चमस्वर्णकलश एव उत्तमाङ्गमिव उत्तमाङ्ग यस्य तत् हेमघटोत्तमाङ्गम् । कथम्भूतं ब्रह्मशरीरम् ? हेम्नो घटा-रचना यस्मिस्तत् हमघट, एवंविधं उत्तमाङ्ग-शिरो यस्मिस्तत् हेमघटोत्तमाङ्गं । हेमघटात्-ब्रह्माण्डादुत्तममङ्ग हिरण्यवर्ण ब्रह्माण्डप्रभवत्वात् । यत्पुराणम्
'हिरण्यवर्णमभवद्, ब्रह्माण्डमुदकेशयम् ।
तत्र जज्ञे स्वयं ब्रह्मा स्वयम्भूर्लोकविश्रुतः ।।१।। इति । पुनः कथम्भूतं शान्तिजिनेशचैत्यम् ? चतुःसवर्णाश्रितकुम्भवेदं चत्वारः सुवर्णाश्रिता:-सुवर्णमयत्वात् कुम्भा:-कलशास्तेषां वेदः-विद्यमानता निवासो वा यस्मिस्तत्तथा। विदिच् सत्तायाम' दिवादिरात्मनेपदी, 'विदिण चेतनाख्याननिवासेषु' चुरादिरात्मनेपदी, प्रनयोघंत्रि, वेदः। यद्वा, चतु.सुवर्णाश्रितकुम्भा विद्यन्ते-सन्ति वेदयन्ते निवसन्ति वा यस्मिस्तत्तथा, अच् । कथम्भूतं ब्रह्मशरीरम् ? चत्वारः सुवर्णाधिता:-शोभनाक्षरान्विता: कुम्भा इव कुम्भाः समोहितदातृत्वेन पूर्णकलशोपमाना वेदा यस्मात् यस्मिन् वा तत् चतु सुवर्णाश्रितकुम्भवेदम् ।।१५६ । चतुष्कषायाऽरिविनाशनाय, रंकुम्भशांर्गादिचतुष्क' - शस्त्राम् । दधच्चतुरिचतुर्भुजश्री, श्रीशान्तिचैत्यं हरिरूपतीदम् ।।१३०॥
१. चैत्यम् । २. स्म ।
For Private And Personal Use Only

Page Navigation
1 ... 30 31 32 33 34