Book Title: Sanghpati Rupji Vansh Prashasti
Author(s): Vinaysagar
Publisher: Rajasthan Prachyavidya Pratishthan
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रीवल्लभगरिणविनिर्मितम
कुर्वल्लसच्छी पितृस पितृव्य-क्रमाब्जसेवां विनयी नयज्ञः' । शिवादिभिर्धातृभिरात्मजः स्वः, पितृव्यपुत्रश्च विराजमानः ॥११६।।
युग्मम् इति सङ्घपतिश्रीयोगिनाथादिविराजमान श्रीसोमजी___ सङ्घपति-श्रीशजयतीर्थयात्रावर्णनम् ।
वर्षे चतुदिग्गजरागमेरुसंख्ये १६४८ हलाराभिधमण्डलस्य । अत्यन्तदुःखाकुललोकबन्दि, व्यमोचयद् द्रव्यचयं स दत्वा ।।१२०॥ ते बन्दिलोका अपरे च लोकाः, प्रोचुस्तदानोमिति सत्यवाचम् । त्वं विश्वपालः सकलावलाया, आधारभूतोऽसि मनोजवो नः ।।१२१।।
इति बन्दिमोचनम् । रूप्यार्द्धकस्यधित शाश्वतद्धिः, सोऽभिव्यधांल्लम्भनिकां विलोभः । गच्छे बृहत्खारतरे समस्ते, धर्मेऽतिगृध्नुर्न धने धनीन्द्रः ।।१२२॥ सामिकेभ्यो हि निजानिजेभ्यः, करांगुलीनां परिधापनाय । हेम्नो नवीनान् वलयान् बलीया-नेनो विनाशाय ददौ च स द्विः ॥१२३।।
इति श्रोसङ्घपति श्रीसोमजीकृत-सर्वखरतरगच्छसामग्री
लम्भनिका श्रावकनिकरकराङ्ग लीवलयारोपण योवर्णनम् । श्रीश्यामलाख्ये किल पाटके यः, स्पष्टस्फटश्यामलपाश्वचैत्यम् । अत्यद्भुतं कारयति स्म सम्यङ, द्रव्यव्ययात् सोऽभिननन्द लक्ष्म्या:
॥१२४॥ श्रीसूत्रधारस्य धनाभिधस्य, प्रतोलिकायां बहुलालयायाम । चतुर्मुख शान्तिजिनेशचैत्यं, श्रीसोमजीः कारयितुं व्यवाञ्छद् ॥१२५।। रूप्योपमानाश्मभिरादिनाथ - तीर्थङ्करोच्चप्रतिमा विराजि । वसुन्धरान्तःशरणं शरण्यस्ततः पुरा कारयति स्म रम्यम् ॥१२६।। विचित्रितं चित्रकृता नचित्रस्तद्वीक्ष्य लोका इति संदिहन्ति । पातालवास्यचिचिषुर्जनः किं, विवन्दिषुश्चात्र सदाऽऽस्त एषः ॥१२७।।
१. विनीत इति पाठो वाः। २. स्वगृहोपकण्ठे इति वा पाठः ।
For Private And Personal Use Only

Page Navigation
1 ... 29 30 31 32 33 34