Book Title: Sanghpati Rupji Vansh Prashasti
Author(s): Vinaysagar
Publisher: Rajasthan Prachyavidya Pratishthan
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२४
श्रीवल्लभगरिण विनिमितम्
तिर्यञ्च इत्यूचुरिवेह' केचिद्, 'वज्रीदमत्येव स किं वराकः । अर्थे प्रभूते तृणमप्यरम्यां' , दातुं न यः कहिचिदप्यऽशक्नोत ।।६।। विद्वानिवार्थान् विविधाथिने यो, लोकाय लोकायतगीतको त्तिः । सदा ददौ नाभिमहीपपुत्रं, स सोमजी रेलि जिनं निनसुः ।।६।।
युग्मम्
प्रापत् क्रमात् बिक्रमविक्रमार्कः, शत्रुञ्जयाद्रि विजिताऽजितारिः । स सङ्घनाथस्तदुपत्यकायां, स्थूलस्थुलालोर्बहलाश्च तेने ॥१००! रक्तावदातादिविचित्रवर्ण - दूष्याद्यऽष्यग्रहणैः स्वदेहम् । अलञ्चकारेति बुधा अबुध्य-न्नुपत्यका स्त्रोव मुदा तदानीम् ॥१०१॥ अष्टापदं श्रीभरताभिधानंरचक्री यथा श्रीविमलाचलं सः । तथाऽऽरुरोह स्वकुलाद्युपेतः, श्रीमारुदेवं जिनपं प्रणन्तुम् ।।१०२॥ कश्मीरजन्मादिभिरर्चयित्वा, स्तुत्वा गुणौघान् गुणिवर्णनीयान् । अपोपवीत् स्वीयवपुर्विपापं, स शस्तहस्ताननभासुराभम् ॥१०३।। जिनं हि सङ्घाधिपसम्मुखीनं, मुदा समायान्तमिवाऽभिवोक्ष्य । वीक्ष्य प्रपन्नाः स्वमुखेन सर्वे, विद्वज्जना इत्यवदंस्तदानोम् ॥१०४।। यदेष मा पूजयितुं समायात्, द्वाभ्यां समानां किल विंशतिभ्याम् । पापात्मभिर्भूपतिभिनिषिद्धं, विधाय मार्ग वहमान मद्य ॥१०॥
युग्मम् अष्टप्रकारी प्रवरी च सप्त-दशप्रकारामुदितां जिनेन्द्रः । विधाय पूजा स्वमनोरथान् यः, पपर्व सर्वं स शशर्व पापम् ।।१०६।। सौभाग्यमालां खलु पुण्य माला, प्रफुल्लफुल्लालिविशालिमालाम् । प्रक्षिप्य कण्ठे वपुषोच्चकण्ठे, विशः समुत्कण्ठयति स्म चान्यान् ।।१०॥
१. इहेति एषः अद्भुतसम्पत इन्द्रः अस्मिन्वाक्ये। २. इदमति-अर्यामाचरति । ३. मात्ररायं । ४. जिनो हि सङ्घाधिपसु। ५. तदानी-तस्मिन्काले पूजाविधानसमये इत्यर्थः। ६. किलेति सत्ये समानां वर्षाणां द्वाम्यां विंशतिभ्यां चत्वारिंशद्वर्षेभ्य इत्यर्थः । ७. अद्य अस्मिन्काले। ८. 'पर्व पूरणं म्वादिः। ६. शर्व हिंसायाम् तालव्यादिवादिः ।
For Private And Personal Use Only

Page Navigation
1 ... 27 28 29 30 31 32 33 34