Book Title: Sanghpati Rupji Vansh Prashasti
Author(s): Vinaysagar
Publisher: Rajasthan Prachyavidya Pratishthan

View full book text
Previous | Next

Page 27
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २२ श्रीवल्लभगणिविनिर्मितम च-अन्यन्निरीक्ष्य । इतीति किम् ? समतिर्हन यथार्थः, परं एतल्लसच्चन्यविधापिकाऽपि-जसमादे-नाम्नी योगिसङ्घपतेः पत्नो सुमतिबंभूव। कथम्भूता एतल्लसचैत्यविधापिका ? श्रेयः-प्रियात्मा इत्युक्तिलेशः। ७८।। श्रीयोगिसङ्घाधिपतेर्लघिष्ठा, नान्यादिकाकी' गृहिणी द्वितीया । फलं विशालं बहुलेखनस्य, ज्ञानस्य शुश्राव गुरोर्मुखोब्जात् ।।७।। उत्पन्नतल्लेखनभव्यभावा, ज्ञानाऽन्तरायक्षयहेतवे सा। एकादशाङ्गयादिकसर्वशास्त्र-कोशं मुदाऽकारयदात्मनाम्ना ॥८॥ सा श्राविका तप्यतपांस्यतप्त, षष्ठादिकान्युज्जमनान्वितानि । अन्यरशक्यानि जनैर्विधातुं, संसारसौख्यानि विषं विबुध्य ॥८१॥ श्रीसोमजीरित्यथ सङ्घनाथः, पप्रच्छ नत्वा जिनचन्द्रसूरिम् । सङ्घ महान्तं करवाणि पुण्यं, वर्षे चतुर्वेदषडेकसंख्ये (१६४४) ॥८२।। महाऽवनीमण्डनमण्डलाना-मधीश्वरेभ्योऽप्यधिकप्रतापः । विवन्दिषुः श्रीविमलाचलेशं, श्रीमारुदेव सुकृताभिलाषी ॥८३।। युग्मम् ततः समाख्यत् जिनचन्द्रसूरिः, कुरुष्व मा त्वं प्रतिबन्धमत्र । प्रसन्नचित्तोऽथ समस्तदेश-संघान स ाकारयदादरेण ॥२४॥ आकारणं तस्य निशम्य सर्वे, पृथक्-पृथक्-देशमहाजनौघाः । प्रमुद्य हृद्य न्नतिकृन्मुहूर्ते, प्रतस्थिरे तीर्थकरार्चनार्थाः ॥८५।। तेऽनुक्रमेणादरतोऽध्वनीन- ग्रामोत्तम द्रंगजिनाऽनगारान् । प्रवन्दमानास्त्वरितप्रयाणे - रहम्मदावादपुरं ह्यवापुः ।।८।। श्रोसोमजीः सङ्घपतिस्तदानी - ममोदता' -ऽऽपृच्छत चादरेण । प्रभूतदेशागतयात्रिकौघान्, महद्धि कान् वाक्ष्य विकस्व राक्षः ।।८७।। १. नानी काकी। २ समीयुः । ३. प्रमोदत- 'मुदि हर्षे प्रात्मनेपदि। ४. प्रापृच्छत-प्रालिङ्ग य कुशलादि अपृच्छत् इत्यर्थः । 'प्रच्छत् ज्ञोप्सायाम्' प्राङपूर्वः प्रच्छिरालिंगन दिना प्रानन्दनार्थः । यत्कालिदासो मेघदुते -- प्रापच्छस्व प्रियसख मम तुङ्गमालिंग्य शैलम्' इति । For Private And Personal Use Only

Loading...

Page Navigation
1 ... 25 26 27 28 29 30 31 32 33 34