Book Title: Sanghpati Rupji Vansh Prashasti
Author(s): Vinaysagar
Publisher: Rajasthan Prachyavidya Pratishthan

View full book text
Previous | Next

Page 24
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org संघपति रूपजी वंश- प्रशस्तिः Acharya Shri Kailassagarsuri Gyanmandir कदापि चित्ते न हि यस्य रोषः, सन्तोषपोषः सह सर्ववर्णैः । विद्वेषदोषौ न न च द्विषन्तः, स सोमजीगर इवाऽऽस साङ्गः ॥ ५६ ॥ व्या०—-स सोमजी: सङ्घपतिः श्रास- दिदीपे । क इव ? साङ्गः - मूर्तिमान् गौर इव-गौरवर्ण इव । सः कः ? यस्य चित्ते कदापि सर्ववर्णैः सह ब्राह्मणक्षत्रियवैश्यशूद्रः सार्द्धं न हि शेषः किन्तु सन्तोषपोषः । श्वेतवर्णस्यापि पोतादिवर्णैः सह न रोषः किन्तु सन्तोष एव । यथा श्वेतवर्णे अन्ये पीताद्याः सर्वे वर्णा मिलन्ति तथा श्रीसोमजीकेऽपि चत्वारो वर्णा श्रप्रियन्ते इति भावः । शेषं सुगमम् ॥ ५६ ॥ १६ J प्रापालयन् मञ्जुल निष्कलङ्कं शोलं सलीलं सुकल: सदा यः । आबालभावं खलु वार्द्धकान्तं चिरं चमत्कारकरः स रेजे ।। ५७|| धनी धनानां य उपार्जिताना-ममानदानं फलमाततान । शाखीव शाखादिभिरेधमान - श्चिरं स सच्छाय इहैधतोर्व्याम् ||२८|| सदाऽप्रियन्ताऽभिमताः सुवर्णा, रागं स्वकं सम्पुपुषुविदोषम् । यस्मिन् परान्ना इव संश्रयन्तो, लोकेभ्य इभ्यो व्यरुचत् स सोमः ॥ ५६ ॥ पञ्चेन्द्रियत्वं परिहाय लोका-देकेन्द्रियत्वेन विधाय रूपम् । किं तिष्ठतीव त्रिदिवे सुरद्रु-र्यद्दानलीला विजितोऽजयत्सः ॥ ६०॥ श्री सोमजीनाममिषं मनुष्य - लोके विधाय स्वविमानतः स्वः । धर्मं चिकीर्षुस्स चतुष्प्रकार-मवातरत् किं सुकृताभिलाषी ॥ ६१॥ [ इति ] श्रोसोमजीवर्णनम् । १. २. ३. सः - सोमजीः । ४. हे शिवसंघपते ! भिन्नक्रमः । ६. शिवाय क्षेमाय । श्रथ लघुभ्रातृ सङ्घपतिशिवावर्णनम् शिव ! त्वमेवेव शिवः शिवाय', प्रवर्त्तसे सर्वजनस्य शश्वत् । प्रायश्रितः सर्वविभूतिदोप्तो भोग्युत्तमः सद्वृषभाभिरामः ||६२ ॥ शिवस्य साक्षात् शिवमेव सर्वे, विबुद्धच बुद्ध्या विबुधा मनुष्याः । श्रामुष्मिकानेक शिवाथिनस्त्वां शिवाऽनिशं श्रेय इवाश्रयन्ते ||६३ || ५. शिव इव-शम्भुरिव श्वोऽत्र For Private And Personal Use Only 1

Loading...

Page Navigation
1 ... 22 23 24 25 26 27 28 29 30 31 32 33 34