Book Title: Sanghpati Rupji Vansh Prashasti
Author(s): Vinaysagar
Publisher: Rajasthan Prachyavidya Pratishthan

View full book text
Previous | Next

Page 14
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वाचकोत्तंस-श्रोश्रीवल्लभगणिविनिमितम् संघपति-रूपजी-बंश-प्रशस्तिः ऐं नमः । श्रेयः श्री: श्रयते यदीयविशदाऽऽनन्दिप्रसादात्सदा , कार्यं कर्तुं मना जनाद्भुतमविः' प्रवीभवत्येव च । स श्रीशान्तिजिनोऽद्भुतां वितनुतां व: सम्पदं शं पदं , विद्वांसो भविपुङ्गवा भगवतामायुष्मता श्रीमताम् ।।१॥ भवति नृणां कुशलं चिरकालं , यदुदित चञ्चदनुग्रहतोऽत्र । वितरतु सत्प्रतिभा श्रुतदेवी , रणरणकप्रणता नगणैः सा ॥२॥ भास्वद्भासुरपोरवाडनिविडप्रोद्दण्डपूर्वाचलप्रद्योतामणि मस्तकशिरश्चूडामणिभू मणि: श्रीसङ्घाधिपरू पजीविजयतां ज्यायान् वरीयांश्चिरं , जाग्नच्छी जिनशासनोन्नतिकृतां न णां सदा ग्रामणीः ॥३॥ गुणोपः सदाऽमानदानादिभिर्य , त्रिलोकास्त्रिलोकीशतुल्यं ब्रुवन्ति । चिरं नन्दतान्नन्दयन्तो जनानां , भुवि श्रावकाधीश्वरो रूपजीः सः ॥४॥ पूर्वं पूर्वजवर्णनञ्च विहिताऽनन्ताऽद्भुतश्रेयसा , व्याख्या लक्षविचक्षणः समुदितां विश्वोदितां दीप्तिवत् । जैनश्रावकनायकत्वमनकं तस्या -ऽन्वहं बिभ्रतः , श्रीश्रीवल्लभवाचकः कविगुरून्नत्वा स्तवीत्यादरात् ॥५॥ १. मनागमतिकविः। २. त्रयो लोका: त्रिलोकाः, त्रयाणां लोकानां समाहारस्त्रिलोकी तस्या ईशः विष्णुः। ३, रूपजीकस्य । For Private And Personal Use Only

Loading...

Page Navigation
1 ... 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34