Book Title: Sanghpati Rupji Vansh Prashasti
Author(s): Vinaysagar
Publisher: Rajasthan Prachyavidya Pratishthan
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रीवल्लभगणिविनिर्मितम्
व्या०–स योगिश्रेष्ठी क्षणेन-प्रायो बाहुल्येन अथिनां-याचकानां प्रयोजनवतो वा दुविधतां-निःस्वत्वं तिरश्चकार । चान्यत् ईहितार्थान्-वाञ्छितप्रयोजनानि सहस्रशः अरं-प्रत्यथं चकार ! क इव ? घस्र इव-दिवस इव । कथम्भूतो दिवस: ? शुभामृतादित्य सुयोगयुक्त:-शुभयोगाऽमृतयोगरवियोगसहितः। कथम्भूतः योगी ? शुभं च-कल्याणं अमतं च-मरणाभावः श्रादित्याश्च देवा अर्थात तीर्थक रास्तेषां सुयोग:--शोभनयुक्तिस्तया युक्तो यः स तथा । 'स्यादादित्यः सुरे रवी' इति श्रीधरः ॥३६-३७॥ पापारिविध्वंसनतत्परत्वात, सर्वस्य लोकस्य वशंकरत्वात् । दरिद्रदारिद्रयविघातकत्वात्, व्यर्थो हि योगीव बभूव योगी ॥३८॥
व्या०-योगी-श्रेष्ठो हि-निश्चितं व्यर्थ:-अर्थत्रयोपेतः योगीव बभूव-प्रासीत् । प्रथमार्थे-योगः सन्नाहः सोऽस्त्यस्य योगी सन्नाहवान् । द्वितोयार्थे-योगः-- कार्मण सोस्त्यस्य योगी--कार्मणवेत्ता इत्यर्थः। तृतीये अर्थ-योगः--विस्रब्धघाति अर्थात्ततुल्यं योग:-धनमित्यर्थः सोऽस्त्यस्य योगी-धनवान् इत्यर्थः । यथाक्रम अयोपि पापारिविध्वंसनतत्परत्वादित्याद्या हेतवोऽपि योज्याः। योगशब्दस्य सन्नाह १, कार्मण २, विस्रब्धघातिनः ३ एते त्रयोऽस्तित ईन प्रत्यये योगीति ॥३८॥
इति सङ्घपतियोगिवर्णनम् ।
अथ नाथाख्यसङ्घपतिवर्णनम् आह लादक: सर्वजनस्य भास्वान्, भ्राता तदीयः स हि नाथ पासीत् । समस्तलक्ष्मीनिलयो निलोनो, व्रतेषु यो द्वादशसूत्तमेषु ॥३६॥ सुधर्मकर्मादिकनेमिसीमां, न यस्य कोऽपि ह्य दलङ्घयन्ना । नाथो धनी धर्मपरायणोऽभूद्, भूमौ स भूमीपतिलब्धमानः ॥४०॥ ज्यायान् हि यः सज्जनदुर्जनानां, द्वयर्थो नु नाथः समभूत् शरीरी। प्रत्यक्षतोऽभासत भासुरात्मा, भास्वत्प्रतापः स चिराय नाथः ॥४१॥
व्या०-स नाथः सङ्घपतिः चिराय अभासत-दिदीपे । स: कः ? यः ज्यायान भूमौ सज्जनदुर्जनानां प्रत्यक्षतः शरोरी-शरीरवान । नु इत्यव्ययं उपमायां । नाथः नाथ इवत्यर्थः । द्वयर्थः-प्रथंद्वयवान , हि-निश्चितं समभूत् । सज्जनपक्षे, सज्जनानां पोषकत्वेन नाथ:-स्वामी आसीत् । दुर्जनपक्षे, दुर्जनानां निराकरणात् नाथ:-उपतापकः समभूत् । कथम्भूतो नाथः ? सज्जनपक्षे, भासुरात्मा-देदीप्यमानस्वरूपः । दुर्जनपक्षे, भयङ्करस्वरूपः । 'भयङ्करे तु डमरमाभीलं भासुरं तथा' इति १. योगिश्रेष्ठिनः ।
For Private And Personal Use Only

Page Navigation
1 ... 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34