Book Title: Sanghpati Rupji Vansh Prashasti
Author(s): Vinaysagar
Publisher: Rajasthan Prachyavidya Pratishthan

View full book text
Previous | Next

Page 17
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीवल्लभगणिविनिर्मितम् अकृपणा वाञ्छितार्थदायिकात्वात् वरयोषिर्या । अत्र अर्याशब्द: स्वामिनीपर्याय श्राद्यस्वरादिः । 'स्यादयः स्वामिवेश्ययोः' इत्युक्तत्वात् । इतदुष्कृताः दुष्कृतं च अजूश्च नरके हठात् क्षेप इति द्वन्द्वे दुष्कृताज्वौ, इते-गते दुष्कृताज्वौ यस्याः इतदुष्कृताजूः । यद्वा, इता-गता दुष्कृतमेवाऽऽजुर्यस्याः सा तथा । कथम्भूतस्य तस्य गोपालस्य ? उदितानन्तविभूतिभाजः उदयप्राप्तानन्तसम्बद्भजनशोलस्य । कथम्भूतस्य शङ्करस्य ? उदितानन्तविभूतिभाज:-लांघमाशितेशित्वं प्राकाम्य मित्याद्यष्टधेश्वर्य भजनशीलस्य ॥१४॥ [ इति ] गोपालश्रेष्ठिराजूस्त्रीवर्णनम् । काले व्यतीते कियति प्रशस्त, पुत्रं फलं साऽऽम्रलतेव लेभे । राजाभिधेयं स्वगुणैरमेयं, समस्तलोक - स्पृहणीयरूपम् ।।१७।। व्या०- सा-राजूः गोपालष्ठिपत्नी राजाभिधेयं पुत्र लेभे-अलभत । क्व सति ? कियति काले व्यतीते सति-परिणयनानन्तरं कियति काले व्यति. क्रान्ते सतीत्यर्थः । किम् ? केव ? फलं आम्रलतेव-पानलाणं फल लभते तथा राजूरपि राजाभिधेयं पुत्र लेभे इत्यर्थः । कथम्भूतं पुत्रम् ? प्रशस्त-रोगादिभी रहितत्वात् सुन्दरम् । फलपक्षे तु, सुवातादिना पक्ष्याद्य भक्षणेन च मविनष्टत्वात् सुन्दरम् । पुनः कथम्भूतं पुत्रम् ? स्वगुणः-स्वकोयौदार्यगाम्भीर्यसौन्दर्यादिगुणः अमेयं-अपरिगणनीयं, एतस्य इयन्तो गुणा इति गुणगणनाऽशक्यत्वादित्यर्थः। आम्रफलपक्षेऽपि स्वगुणः-कफहरग्राह्यादिभिगुण रमेय तथैवार्थः । 'साम्र: कफहरो ग्राही वण्यो वातप्रमेहहत्' इति धन्वन्तरिः। अाम्रगुणानाह । पुनः कथम्भूतं पुत्रम् ? समस्त लोकस्पृहणीयरूपं, सुभमं । फलपक्षेप्ययमेवार्थः, परिपक्वगौरवर्णो. पेतत्वेन जनानां वाञ्छनीयत्वात् । अत्र फलमिति भिन्नलिङ्गोपमा ॥१७॥ यदीयराजेति सुनामधेये, जजल्पुरित्थं विबुधा विकल्प्य । कि पार्थिवः किञ्च निशाकरोऽयं, किं नायक: कि त्रिदिवाधिनाथः ।।१८।। कि क्षत्रियस्तत्तदनेकदीव्यद्-गुणैर्नराणां कुशलाय शक्त: । लोकप्रकाशविहितारिनाशे, रराज राजा स चिरं धरायाम् ॥१६॥ युग्मम् [इति ] राजाश्रेष्ठिवर्णनम् । तस्याऽभवत् प्रेमरसस्य पात्रं, रत्नादिदेवो प्रवरा हि पत्नी । हर्षप्रदा मेघघटेव नव्या, शश्वन्मयूरस्य जनाभिरामा ॥२०॥ For Private And Personal Use Only

Loading...

Page Navigation
1 ... 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34