Book Title: Samprati Nrupati Charitram
Author(s): Chaturvijay
Publisher: Atmanand Jain Pathshala
View full book text
________________
+9445
भिःकपः क्षुरिकाकरः । तस्योदरं विदार्याशु, चाणिक्यः पनकोषवत ॥ १२८ ॥ अविनष्ट स्वरूपस्थं, स्थाल्या इव करम्बकम् । तमादाय पुटे संपतिनृप
कृत्वा गत्वा मौर्यमभोजयत् ॥१२९॥ युग्मम् ॥ पुनर्यान्तौ गतौ कापि, सन्निवेशे निशामुखे। चाणिक्यस्तत्र भिक्षार्थों, वृद्धाऽऽभीरीगृहं गतः ॥४ ॥
॥ १३० ॥ अत्राऽन्तरे स्वडिम्भानां, रब्बाऽत्युष्णा तया तदा । स्थाले दत्ताऽस्ति तन्मध्ये, न्यधादेकः शिशुः करम् ॥१३१॥ रुदन दग्धकरः सोऽय, तया साक्रोशमीच्यत । किं चाणिक्यस्य निर्बुद्धे-मिलितोऽसि त्वमप्यरे ॥ १३२ ॥ स्वनामाशङ्कयाऽपृच्छ-चाणिक्यः स्थविरां ततः । मातः क एप चाणिक्य-स्त्वं यदीयोपमामदाः ॥ १३३ ॥ तयोक्तं कोऽपि चाणिक्य-चन्द्रगुप्तनृपान्वितः । प्रागेव पाटलीपुत्र-मुपादातुमढौकत ॥ १३४ ॥ मूर्यो न वेत्ति यद्देशो, गृह्यते प्राक् समन्ततः । गृहीते च ततस्तस्मि-नात्तमेव हि पत्तनम् ॥ १६५ ॥ मत्पुत्रोऽप्येष तत्तुल्यः, पूर्वमेवाक्षिपत् करम् । मध्ये योऽत्युष्णरब्बाया, अनादायैव पार्थतः ॥ १३६॥ बालादपि हितं ग्राह्य-मिति नीति स्मरंस्वतः। स नन्दराज्यसंप्राप्ति-लग्नकं तदचोऽग्रहीत् ॥ १३७॥ सचन्द्रगुप्तवाणिक्यः, संवयं बलमात्मनः । गच्छति स्म ततः शैलं, हिम वत्कूटनामकम् ॥ १३८ । शबराधिपतिं तत्र, चाणिक्यः पर्वताभिधम् । साहायकं ततः काङ्क्षन्, नयति स्म वयस्यताम् ॥ १३९ ॥ तमन्यदोचे चाणिक्यो, नन्दमून्मूल्य तच्छूियम् । आवां विभज्य गृहीवः, सोऽपि तत्सत्यपद्यत ॥१४० ॥ सवौंघेणाथ चाणिक्यः, स्वीकुर्वन्नन्दमेदिनीम् । एक नन्दपुरं स्फीतं, वेष्टयामास सर्वतः ॥ १४१॥ शक्नोति तं न चादातुं, परिवाड्वेषभाक् ततः। चाणिक्यः प्रविवेशान्त:पुरं तद्वास्तु वीक्षितुम् ॥ १४२ ॥ अपश्यत् सुप्रतिष्ठाः स, भ्रमनिंद्रकुमारिकाः। दध्यौ चैतत्प्रभावेणा-ऽभङ्गमेतत्पुरं ध्रुवम् ॥ १४३॥
चणी तद्वेष्टमापृष्टः, स निर्विणैर्जनस्तदा । आख्यदिन्द्रकुमारीणा-मासामुत्पाटने सति ॥१४४॥ मयैतल्लक्षणैर्जातं, प्रत्ययश्चैष कथ्यते । एततदुत्पाटनारम्भे-ऽपीपद्रोधनिवर्तनम् ॥१४५॥ तथारब्धेऽपि तैस्तेन, रोधः किश्चिन्यवय॑त । ततः प्रत्ययितैर्लोक-स्तत्र कूपः कृतस्तदा ॥१४६॥
१ मेलयित्वा, २ देवमूर्तीः
॥४॥

Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28