Book Title: Samprati Nrupati Charitram
Author(s): Chaturvijay
Publisher: Atmanand Jain Pathshala

View full book text
Previous | Next

Page 13
________________ 161% स्तेऽथ, न चूतैर्वेशरक्षणम् । घटते किन्तु वंशौध-भूतानां परिरक्षणम् ॥ १८४ ॥ परमार्थमजानानैः स्वयुध्येति विमृश्य तैः । छित्वा वंशास्तत- 12 श्रुत-वनस्य वृतिरादधे ।। १८५ ।। तमादेशविपर्यासं, मिषीकृत्य चणीप्रमः । मदान्ध इव कुम्भीन्द्रः, कृत्याकृत्यमचिन्तयन् ॥ १०६ ॥ सबालवृद्धं संग्राम, बध्वा द्वाराणि सर्वतः । द्वीपायनो द्वारवती-मित्र प्राज्वालयत् क्रुधा ॥ १८० ॥ युग्मम || अधानिनाय तां भार्यांमृचे च दयिते ! मया । त्वत्कृते विहितः सर्वः साम्राज्यार्थमुपक्रमः ॥ १-८ ॥ अपमानविषासिता - मैश्वर्य सुधयाऽधुना । तन्निव महाभागे ! शचीवानुभवेः सुखम् ॥ १८९ ॥ चाणिक्यचरितं चैत-दाकर्ण्य श्वशुरोऽपि हि । भीतो भीतः समागत्य, वाणिक्यमिदमुचिवान् ॥ १९० ॥ जामातः ! प्राग् यदस्माभिः पुत्रोद्वाहे भवत्मिया । दयिता निर्धनस्येति, स्वपुत्र्यपि न सत्कृता ।।१९२।। स तत्रैव तिरस्कार distमा क्षम्यतामेकदाऽस्माकमपराधः प्रसद्य भोः ॥। १९२ ॥ चाणिक्योऽप्यभवत्तस्य, सुप्रसन्नमनास्ततः । जायन्ते हि यांसः प्रणिपातः ॥ १९३ ॥ श्वशुरस्यापरेषां च स्वजनानां ततोमुदा । स ददौ ग्रामदेशादी- नौचित्यादौचितींचणः ॥ १९४ ॥ अन्यदाssलोकयन कोश, शून्यं दुर्गतवेश्मवत् । दध्यौ च न भवेद्राज्यं, कोशहीनं विनंक्ष्यति ॥ १९५ ॥ अथ कोषकृतेऽकार्षी-चाणिक्यः कूटप|शकान् । रत्नस्थालं पुरस्कृत्य स्वनरं रन्तुमासयत् ।। १९३ ।। सोऽवदयेन जीयेऽडं, रत्नस्थालस्य स प्रभुः । दद्यादेकं स दीनारं, यः पुनर्जीयते मया ॥ १९७ ॥ रमन्ते बहवस्तेन, सार्द्धं लोभेन किं पुनः। जीयते न स केनापि, स्ववशंवदपाशकः ।। १९८ ।। चाणिक्येनाथ विज्ञाय, कोशपूर्तिश्विरादितः । उपायान्तरमा सूत्रि, शीघ्रं कोशमदं ततः ।। १९९ ॥ पाययामि यथा मयं सर्वानपि कुटुम्बिनः । गृहसारं निजं येन, सर्वमावेदयन्ति ते ॥ २०० ॥ यतः क्रुद्धस्य रक्तस्य, व्यसनाऽऽपतितस्य च । मचस्य म्रियमाणस्य, सद्भावः प्रकटो भवेत् ॥ २०१ ॥ इति निश्चित्य चाणिक्यः समाहूय कुटुम्बिनः । मयेन मदयित्वा तान्, सद्भावं ज्ञातुमूचिवान् ॥ २०२ ॥ द्वे बस्ने धातुरक्ते मे, १ गुरवः ।

Loading...

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28