Book Title: Rushibhashit Sutra
Author(s): Vinaysagar, Sagarmal Jain, Kalanath Shastri, Dineshchandra Sharma
Publisher: Prakrit Bharti Academy

View full book text
Previous | Next

Page 448
________________ इत्यादि, वल्मीकः स्तूपो वृक्षो वनखण्डः पृथिव्यां जातः पुष्करिणी पृथिव्यां जाता पुष्कर उदके जातोऽग्निकायोऽरण्यां जातोऽरणीमेवामिभूय तिष्ठति, एवमेव धर्मास्तिष्ठान्ति। धिक् तेषां ग्रामनगराणां येषां स्त्रियः प्रणायिकाः, ते चापि धिक्कृताः पुरुषा ये स्त्रीणां वंश गताः (1)।। सुदिव्या भावका प्रेक्षणीया मधुरोदका पुष्पिता रम्येव पद्मिनी ग्राहाकुला, मालतीव व्यालाक्रान्ता, हैमगुहेव ससिंहा, मालेव वध्यकल्पिता, गन्धयुक्तिरिव सविषा, वाहिनीव नदी सेना वा अन्तर्दुष्टा, मदिरेव गरान्ता, योगकन्या स्त्रीरिव योगपरा शालिनी गृहिणी, एवं नारी लोके विज्ञेया भवेत् स्वगुणोदया प्रकटीकृतस्त्रीदोषा (2 - 4)।। कुलानां तूत्सादनं द्रव्यहीनानां लाघवम् अनादरः सर्वदुःखानां प्रतिष्ठा निष्ठा निधनं चार्यिकाणां वैराणां गम्भीर गुप्तं गृहं सद्धर्मचारिणां विघ्नो दुष्टाश्वः मुक्तखलिनः, एवं श्रुता लोके किमङ्गना कुस्त्री, लाघवो अखलीणं बलवं ति पञ्चम-षष्ठश्लोकयोः पदेषु लिङ्गविपर्ययः (5, 6)।। यत्र तु ग्रामेषु नगरेषु वा स्त्री बलवती तदनश्वस्य शुनादेhषा शब्द इव पर्वरहितेषु वा दिनेषु मुण्डनमिव भवति (7, 8)।। हुताशाद् भयं दाहो विषान्मरणं शस्त्राच्छेदो व्यालाद् दशनम् (9)।। शङ्कनीयं च यद् वस्तु यच्चाप्रतीकारं तद् सुष्ठु व्यक्तं जानीयाद् यो युज्यमानानि युज्यमानानां वस्तूनामनुयोजयिता भवति (10)।। यत्र ये समारम्भा ये वैतेषां सानुबन्धा भवन्ति तानि वस्तूनि सुष्ठु जानीयात्, नैतत् सर्वविनिश्चये नैतद्धिताहिते अनादृत्य निश्चयनीयम् (11)।। यत्र येषां समारम्भाणां सुखोत्पत्तिर्भवति ये वैतेषां सानुगामिनोऽनुगमसहिता विनाशिनो वा विपरीतं वा भवन्ति तान् जानीयात् कालवेदविद्, वेद इतीह लौकिकं ज्ञानम् (12)।। (13) (14)।। नवमश्लोकादारभ्य परिसाडी कम्मे त्ति— आदि-ऋषिभाषितं पुष्करपत्रोपमान्तमनुबध्यते इति व्यक्तम्।। दगभलाध्ययनं गर्धभीयेत्यपरनामकम्। 23 द्वे मरणेऽस्मिंल्लोक एवमाख्यायेते, तद् यथा सुखमृतं चैव दुःखमृतं चैव।—अत्र विज्ञप्तिं व्यख्यानं ब्रवीमि। इमस्य खलु ममीकारिणोऽसमाहितले शस्यासमाहितमनोवृत्तिकस्य गण्ड इति ग्रन्थ्यर्थे तेन परिघातितस्य बाधितस्य बन्धनपरिघातस्येति पाठोऽशङ्कनीय एव गण्डबन्धनप्रतिघातं करिष्यामि। अलं पुरो-मतेन दुःखं मरणमिति। तस्मात् तं पूर्वोक्तं कृत्वा ज्ञान-दर्शन-चारित्राणि प्रतिसेविष्ये। ज्ञानेन ज्ञात्वा दर्शनेन दृष्ट्वा संयमेन संयम्य तपसाऽष्टविधकर्मरजोमलं विधूय विशोध्यानादिकमनवदनं दीर्घाध्यानं चतुरन्तसंसारकान्तारं व्यतिपत्य ऋषिभाषित संस्कृत टीका 447

Loading...

Page Navigation
1 ... 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512