Book Title: Rushibhashit Sutra
Author(s): Vinaysagar, Sagarmal Jain, Kalanath Shastri, Dineshchandra Sharma
Publisher: Prakrit Bharti Academy
View full book text ________________
कुप्यन्नमाद्यन्नगृहन्नलुभ्यंस्त्रिगुप्तस्त्रिदण्डविरतो निःशल्योऽगारवः स्त्रीभक्त-देश-राज-विशेषितचतुर्विकथाविवर्जितः पञ्चसमितः पञ्चेन्द्रियसंवृतः शरीरसंधारणार्थं योगसंधारणार्थं नवदोषकोटिपरिशुद्ध दशदोषविप्रमुक्तम् उद्गमोत्पादनदोषशुद्धं तत्र तत्रेतरेतरेषु कुलेषु परार्थं कृतं परार्थं निष्ठितं विगताङ्गारं विगतसरसाहार-धनवद्दातृवर्णनं विगतधूमं विरसाहारकृपणदातृनिन्दनवर्जितं शस्त्रातीतं शस्त्रपरिणतं पिण्डं शय्यामुपधिं चैष भावयामीत्यर्षिणा भाषितम्।अज्ञानविप्रमुढात्मा प्रत्युत्पन्नाभिधारकः कोपं मानं मायां लोभं कृत्वा महाबाणमात्मा विध्यत्यात्मानम्। मन्ये बाणेन विद्ध एकमेव भवं विनीयते, क्रोध-मान-माया-लोभबाणेन विद्धस्तु भवसन्ततिं नीयते जनः (1-8)।। (9) (10) (11) (12)।। स्वस्मिन् गृहे प्रदीप्ते किं परं गृहं धावसि? स्वमेव गृहं निरिच्य ततो गच्छेत् परं गृहम् (13)।। आत्मार्थे जागृहि, मा भूः परार्थाभिधारकः, तादृशस्यात्मार्थो हीयते (14)।। (15) (16) (17)।। जागृहि, मा स्वपिहि, मा धर्मचरणे प्रमत्तस्य तव चौराः पञ्चेन्द्रियादयः कषायान्ताः संयमयोगयोर्दुर्गतिगमने वा बहु कर्म कार्युः, हिड त्ति कर्मविशेषणं त्वज्ञातार्थम् (18-20)।। अज्ञात अट्टालके जाग्रच्छोचनीयोऽसि णाहिसि त्ति यथां कश्चिद् धनहीनो व्रणितः सन्नौषधमूल्यमविन्दन् दातुं न शक्यः (21)।। हे नरा, जागृत नित्यम्! जाग्रतो हि सुप्तं स्वप्नमेव जागर्ति धर्मे जाग्रतोऽप्रमत्तस्यालस्यं न विद्यते स्वप्नकल्पमित्यर्थः। यः स्वपिति न स-सुखी, जाग्रत् तु सुखी भवति (22)।। (23)।। औद्दालकीयमध्ययनम्।
36
भृशमुत्पतता क्रोधेनेति शेषः उत्पतन्तं कञ्चित् प्रियेण प्रियवचनेन वक्ष्यामि किं शान्तं पापमिति सान्त्वनं वक्ष्याम्युत ण सन्तं ति अशान्तं तं पुरुषमिति शेषो वक्ष्यामि यथा हे तुष तुषकल्प निःसारजनेति? एतत्तु मुनेर्न युज्यत इति भावः—मम चान्येषां च कोपः पात्रं प्रति किञ्चित् पुरुषं मुक्तो दुःखावहो भवति। तस्मात् खलुत्पतन्तं सहसा कोपं निगृह्णन्तु मुनयो यदि वा उत्पतन् कोपो निगृहीतव्यः। मोहं ति मोहः (1)।। वर्तेर्बलं न क्षिप्तं नावमन्तव्यम्, क्रोधाग्नेस्तु बलं परं परमं वढेरल्पा गतिः, कोपाग्नेरमिता (2)।। (3) (4) (5) (6) (7)।। पूर्वं मेरुगिरिवद् गम्भीरसारेऽपि संयमे भूत्वा स्थित्वा कोपोद्गमरजसा धूत आवृतोऽसारत्वमतिर्छत्यभिगच्छति (8)।। महाविष इवाहिः सर्पो दृप्तोऽदत्ताङ्कुरोदयोऽङ्कुरायाप्युदयो न दत्तो येन स तथा चरेत् स रुष्यंस्तिष्ठति विषं च वृथा मुक्तवान् निर्विषत्वमुपागतो भवति, एवं तपोबलस्थोऽपि नित्यं क्रोधपरायणोऽचिरेणापि कालेन तपोरिक्तत्वमृच्छति (9-10)।। गम्भीरोऽपि तपोराशिर्जीवानां साधुभिः पुरुषैर्दुःखेन कृच्छ्रतः संचितः, 456 इसिभासियाई सुत्ताई
Loading... Page Navigation 1 ... 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512