Book Title: Rushibhashit Sutra
Author(s): Vinaysagar, Sagarmal Jain, Kalanath Shastri, Dineshchandra Sharma
Publisher: Prakrit Bharti Academy

View full book text
Previous | Next

Page 462
________________ द्वाभ्यामङ्गाभ्यां रागद्वेषाभ्यामुत्पीडयद्भ्यां नैवोत्पीड्यते स रागाङ्गे च विद्वेषाङ्गे च सम्यगात्मानं नियच्छति।-वरुणाध्ययनम्। 45 अल्पं चायुरिह मानवानां सुचिरं च कालं यावन्नरकेषु वासः, सर्वे च कामा नरकाणां मूलम्, कॉनाम बुधः कामेषु रमेतू? (1)।। पापंच कुर्यान्न प्राणिनो हन्याद् अतिगतरसः, न कदाचिद् उच्चावचेषु शयनासनेषु रमेत, किं तु तान् समतिक्रामेद् वायुरिव जलम् (2)-(3)।। (4) (5) (6) (7) (8) (9) (10)।। यं हन्ताऽभियोक्ता विवर्जयति यद्विषं नरो न भुनक्ति यं वा व्यालं गृह्णाति नास्ति ततो भयम् (11)।। सरसं नीरं स्वच्छं प्रतिधावन्तं दंष्ट्रिणं शृङ्गिणं श्वापदं दोषभीरुणो विवर्जयन्ति, एवं पापं विवर्जयेत् (12)।। पापकर्मोदयं प्राप्य दुःखेन दुःखभाजनं दोषेण च दोषोदयी पापकार्याणि प्रसूते (13)।। उर्वीपाराज जलौघान्तात् तेजन्या वा दग्धात् तृणगुच्छान् मृतोत्थितम् उक्तस्थानेभ्यो मृत्वा प्रत्यागतमनश्वरं जीवानां जीवितं, जीवदेव भवति फलमन्दिर धान्यागारं कर्मफलभाजनमिति श्लेषः (14)।। यदि यो म्रियमाणस्य वसुंधरां पृथिवीं सागरन्तां दद्याज्जीवितं वाऽनयोरेकतरं वरयस्वेति, ततः स मरणभीरुर्जीवितमिच्छति (15)।। (16) (17) (18)।। ये प्राणिनस्तांश्च घातं च प्राणिनां च या प्रिया दया, सर्वमेतद् विज्ञाय प्राणिघातं विवर्जयेत् (19)।। (20) (21)।। तस्मात् प्राणिदयार्थमेकाग्रमना भूत्वा दयार्थी मुनिरप्रमत्तो विहरेद् यथा कश्चित् तैलपात्रधरः (22)।। (23) (24)।। ये भावेनाभिनन्दन्ति जिनाज्ञां तेषां कल्याणानि सुखान्यृद्धयश्च सर्वथा न दुर्लभा भवन्ति (25)।। (26) (27)।। अस्नातो वा यथा रम्यं सरो, व्याधितो वा रोगहरं वैद्यं, क्षुधितो वाऽऽहारं, रणे युद्धे मूढो व्याकूलो वा बन्दी लुण्ठितं, वहिं शीताहतो वाऽपि, निवातं वाऽनिलाहतस्त्रातारं वा भयोद्विग्न, ऋणातॊ वाधनागम, तथा शरणं प्रयतो मन्ये भवेज्जिनवचनं गम्भीरं सर्वतोभद्रं हेतु-भङ्गनयोज्ज्वलम् (28-30)।। (31) (32)।। सर्वज्ञशासनं पुरुषेण प्राप्तं यदि तदा विज्ञानं प्रविजृम्भते प्रकटीभवति यथा तरूणां चारुरागमो मनोज्ञः प्रादुर्भावो दृश्यते पुरुषैर्हिमवन्तं गिरिं प्राप्तवद्भिः (33)।। सत्त्वादीनि वर्धन्ते यथा सुष्ठ्वाक्रान्तं सुप्रयुक्तमौषधं बलवीर्यं योजयति शरीरेणेति शेषः (34)।। प्रचण्डस्य क्रूरस्य नरेन्द्रस्य कान्तारे संसारे च देशिकस्य गुरोस्तथा वैद्यस्यारोग्यकारण आज्ञाक्रोध आरोग्याद्यर्थं प्रशस्तोऽग्राज्ञा दुःखावहा अमनोज्ञा दृश्यते, परंतु यन्नरेन्द्राद् यच्च ये संसारे देशकांस्तेभ्यः शासनं वैद्याद् वा रोगोद्घातो रोगोन्मूलनं सर्वमेतद्धिते हितमतिहितं भवति (35-36)।। जिनेन्द्रस्य शरण्यस्य द्युतिमतः संसारे दुःखसंबाधे सर्वदेहिनां दुस्तारो भवत्याज्ञाकोप उग्राज्ञा, तथाऽपि त्रैलोक्यसारगुरु धीमतो ऋषिभाषित संस्कृत टीका 461 .

Loading...

Page Navigation
1 ... 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512