Book Title: Prashamratiprakaran
Author(s): Umaswati, Umaswami, Yajneshwar S Shastri
Publisher: L D Indology Ahmedabad

View full book text
Previous | Next

Page 156
________________ 81 Appendix-II २९. यद्यपि निषेव्यमाणा मनसः परितुष्टिकरा विषयाः । किम्पाकफलादनवद्भवन्ति पश्चादतिदुरन्ताः ॥१०७।। ३०. यद्वदुपयुक्तपूर्वमपि भेषजं सेव्यतेऽर्तिनाशाय । तद्वद्रागार्तिहरं बहुशोऽप्यनुयोज्यमर्थपदम् ॥१४॥ ३१. यद्वद्विषघातार्थ मन्त्रपदे न पुनरुक्तदोषोऽस्ति । तद्वद्रागविषघ्नं पुनरुक्तमदुष्टमर्थपदम् ॥१३।। ३२. यद्वच्छाकाष्टादशमन्नं बहुभक्ष्यपेयवत् स्वादु । विषसंयुक्तं भुक्तं विपाककाले विनाशयति ॥१०८।। ३३. यस्माद्रागद्वेषोद्धतचित्तान् समनुशास्ति सद्धर्मे । सन्त्रायते च दुःखाच्छास्त्रमिति निरुच्यते तस्मात् ॥१८७।। ३४. यत्सर्वविषयकाङ्क्षोद्भवं सुखं प्राप्यते सरागेण । तदनन्तकोटिगुणितं मुधैव लभते वीतरागः ॥१२५।। ३५. यावत्परगुणदोषपरिकीर्तने व्यापृतं मनो भवति । तावरं विशुद्ध ध्याने व्यग्रं मनः कर्तुम् ॥१८४॥ ३६. यावत्स्वविषयलिप्सोरक्षसमूहस्य चेष्टयते तुष्टौ । तावत्तस्यैव जये वरतरमशठं कृतो यत्नः ॥१२३॥ ३७. लोकः खल्वाधारः सर्वेषां ब्रह्मचारिणां यस्मात् । तस्माल्लोकविरूद्धं धर्मविरुद्धञ्च सन्त्याज्यम् ॥१३१॥ ३८. वृत्त्यर्थ कर्म यथा तदेव लोकः पुनः पुनः कुरुते । एवं विरागवार्ताहेतुरपि पुनः पुनश्चिन्त्यः ॥१५।। ३९. शयनासनसम्बाधनसुरतस्नानानुलेपनासक्तः । स्पर्शव्याकुलितमतिः गजेन्द्र इव बध्यते मूढः ॥४५॥ ४०. शास्त्रागमादृते न हितमस्ति न च शास्त्रमस्ति विनयमृते । तस्माच्छास्त्रागमलिप्सुना विनीतेन भवितव्यम् ॥६६॥ ४१. शास्त्राध्ययने चाध्यापने च सश्चिन्तने तथाऽत्मनि च । धर्मकथने च सततं यत्नः सर्वात्मना कार्यः ॥१८५।। ४२. श्रुतशीलविनयसन्दूषणस्य धर्मार्थकामविघ्नस्य । मानस्य कोऽवकाशं मुहूर्तमपि पण्डितो दद्यात् ।।२७॥ ४३. स क्रोधमानमायालोभैरतिदुर्जयैः परामृष्टः । प्राप्नोति याननर्थान् कस्तानुद्देष्टुमपि शक्तः ॥२४॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180