Book Title: Prashamratiprakaran
Author(s): Umaswati, Umaswami, Yajneshwar S Shastri
Publisher: L D Indology Ahmedabad
________________
104
श्री जससोमगणिविरचितप्रशमरतिप्रकरणस्य संक्षेपतोऽर्थात्तः
फलवत् , असङ्गभावात् गतलेपालाबुकवत्, असङ्गो अपलेपपरमहंसवद्वा गतिपरिणामात् दीपशिखावत् धूमवद्वोर्ध्वगतिपरिणामादित्यर्थः ।।२९४॥ मानसं दुःखमिष्टवियोगादौ स्यात्तस्य, शरीरमनसोरभावे तत्कृतस्य दुःखस्याभावः । दुःखाभावे च सति सिद्धस्य सिद्धं पतिष्ठितं सिद्धिसुखमित्यर्थः ॥२९५॥
इति श्री प्रशमरतिप्रकरणस्य श्री उमास्वातिवाचककृतस्य संक्षेपतोऽर्थः वृत्तिः सम्पूर्णा । संवत् १६६८ वर्षे कार्तिक शुदि ११ दिने पंडित श्री ५. हर्षसोमगणि तत् शिष्यगणि जससोमेनालेखि । शुभं भक्तु । श्रीरस्तु । वटपल्लीनगरे लिखिता ॥श्री।। कल्याणमस्तु । (श्लोकाः २९६-३१३)
अहंत्प्रवचनावयवस्पर्शिकां धर्मकथिकामिमां श्रुत्वा । प्रशमरतेरार्याशतत्रयं द्वादशोत्तरं पारसमाप्तमिति । प्रशमस्थितेन येनेयं कृता वैराग्यपद्धतिः । तस्मै वाचकमुस्याय नमो भूतार्थभाषिणे । इति श्रीपूर्वधारीशिरोमणि श्री उमास्वातिवाचकविरचितं प्रशमरतिप्रकरणं सम्पूर्ण लिखितम् । संवत् १६६८ वर्षे कार्तिकमासे शुक्लपक्षे एकादशी दिने पंण्डितचक्रचूडामणिवादिगरुडगोविन्दसरस्वतिलब्धप्रसादपण्डित श्री ५. पर्वतगणि तत् शिष्य पंडितचक्रवर्ति पण्डित श्री हर्षसोमगणि तत् शिष्यगांण जससोमशिशुना लिखितं वटपल्लीनगरे । शुभं भवतु लेखकपाठकयोश्च । श्रीरस्तु । कल्याणमस्तु ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 177 178 179 180