Book Title: Prashamratiprakaran
Author(s): Umaswati, Umaswami, Yajneshwar S Shastri
Publisher: L D Indology Ahmedabad

Previous | Next

Page 178
________________ Appendix--V 103 न्द्रियपञ्चकात् । तथा आहारभयमैथुनपरिग्रहरूपसंज्ञा चतुष्कात् । तथा करणकारणानुमतिभ्यः । तथा मनोवचनकायायोगत्रयाच्चाष्टादशशीलासहस्राणां निष्पत्तिः भवतीत्यर्थः ॥२४४॥ एभिहेतुभिरैहलौकिकाद्यशः, पारलौकिकनवधानिर्णयपरिभ्रमणरूपो यो अपायो धर्मार्थिना चिन्त्यते सो अपायविचयः ।२४७॥ विविक्तौ पृथाभूतौ बन्धुजनशत्रुवौ यस्य स तथा । समस्तुल्यो वासीचन्दनाभ्यां कल्पनप्रदेहादि छेदनानुलेपनादि यत्रस तथा एवं विधो देहो यस्य ।२५१॥ आत्मारामस्य कृतात्माभिरतेः ॥२५२॥ ऋद्धयः आमषिध्यादयः, प्रवेका अवव्यादिज्ञानविशेषाः, विभवास्तृणा ग्रादपि कनकवृष्टिकर्तृत्वादय: ॥२५४।। तज्जयं तपोऽनुष्ठानजन्यातुल्यविभूतिप्रतिवन्धाभिभवम् ॥२५७।। अनुपलक्ष्यो नाद्यापि निविषयां प्रतीतिमुत्पादयितुं प्रत्यलः । यथा राहुणा पूर्णचन्द्रो मुक्तोऽपि कियन्त कालमनुपलक्ष्यो भवति, तथा क्षीणमोहोऽपीति ॥२६२॥ संक्रमः प्रवेशः ॥२६४।। शिरोगतशूच्याकारमङ्कुरं तस्य विनाशतो यद्वा मस्तकशूचिविनाशात् संक्षयात् तालस्य यथा नाशः स्थिरो भवेत् । २६६ । शाश्वतमनवरतभवनशीलत्वात् , अनंत क्षयाभावात् , अनतिशय केनापि तस्यातिशयितु अशक्यत्वात् ।।२६८॥ द्रव्यगुणपर्यायाणामपि, गुणपर्यायव वव्यं, सहाभाविनी गुणाः, क्रमभाविनः पर्यायाः ।२६९॥ अनपवर्तित्वात् अपवृत्तिरहितत्वादि यर्थः ॥२७१।। अतिरिक्ततरं अधिकतरम् ।।२७२।। द्वीन्द्रियमिति अत्र तात्पर्यमिदं द्वीन्द्रियस्य साधारणस्य पनकस्य च ये वागुच्छ्वास काययोगाः सर्वजघन्यास्तेभ्यः प्रत्येकमसलयातगुणहीनान् बादरान् वागुच्छ्वसकाययोगान् समवरुन्धन सूक्ष्मक्रियकाययोग वर्ती ।।२७९।। उत्तीर्णः (संसारभय ?) रहितः ॥२८२॥ द्रव्यलेश्याभावात् भावलेश्यानामसम्भवः ।।२८३।। अविग्रहेण अवक्रश्रणिगत्या ।।२८७।। साकारोपयोगेन केवलज्ञानोपयोगेन ॥२८८।। स्वलक्षणस्य ज्ञानदर्शनादेभवात, भावान्तरसङ्कान्तेरिति जलस्थितलवणस्य रूपतोऽदर्श ऽपि रसनोपलब्धिवत् ।।२९०॥ अनिबन्धाद् मनुजायुर्गत्यादीनामत्यन्तं प्रलयात् ॥ २९१॥ गुरुद्रव्य पधगच्छन् दृष्टमुपलादि, तस्यानुगौरवं नास्ति अपेतकर्मत्वात् । अशक्यभावाच्च अशक्योऽनुपपन्नः खल्वयं भावो यत्सर्वकर्मनिर्मुक्तोऽत्यन्तं लघुरघोग छतीति, न च लोकान्तात् परतो गच्छतीति, उपग्रहकारिधर्माधर्मास्तिकायादिद्रव्याभावात् , यानपात्रवन्मत्स्यादिवद्वा स्थलेषु गमनशक्तेरभागत् ॥२९२॥ पूर्वप्रयोग इति शुक्लध्याने वर्तमाने न देह विभागहानिकृतिकालेयः संस्कार आहितः । क्रियया स पूर्वप्रयोगस्तेन गमनं सिध्यति दोलावत् कुम्भकारभ्रमितचक्रस्य तव्या पाराभावेऽपि कियत्कालं भ्रमणवद्वा तथा बन्धच्छेदादेरण्डक Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 176 177 178 179 180