Book Title: Prashamratiprakaran
Author(s): Umaswati, Umaswami, Yajneshwar S Shastri
Publisher: L D Indology Ahmedabad

View full book text
Previous | Next

Page 176
________________ 101 Appendix-IV अवस्थां सहिष्णुतेतरादिरूपां करप्यमहम् ॥१४६॥ सर्वार्थेषु सचित्ताचितमिश्रेषु शरीरेन्द्रियसङ्गाहेषु परिसंख्यानं परिगणन परिहरणं कार्य कार्य मुक्त्यादिकमिच्छत्ता ॥१४८॥ आकालिकं सदा भावि हितम् ॥१५३॥ शुचीनामपि कर्पूरादीनां स्वसंयोगात् , अशुचिकरणसामर्थ्यमस्ति तथा आधुत्तरकारणाशुचित्वात् । वपुष: आदिकारणं शुक्रशोणितादि, उत्तरकारणं तु जनन्याभ्यवहृतस्याहारस्य ग्रहणादि ॥१५५॥ ४ मनोदण्डाः, ४ वाग्दण्डाः, ७ कायदण्डाः, एवं पञ्चदशप्रकारेषु दण्डेषु रुचिर्यम्य मूलभेदापेक्षया स तथा, ततश्चायमर्थः प्रमादवान् यो जीवस्तस्य प्रमत्तस्य यथैते भेदा बहवस्तथाऽवश्रकर्माणि आश्रवस्थानानि भवन्तीत्याश्रवविधिरुक्तः । तस्मिन्नाश्रवविधिकर्माणि विषये तेषां भेदानां निग्रहे, तस्माद्यतिर्यतेत ॥१५७॥ वरदस्तीर्थकरैदेशिता ॥१५८॥ विशोषणाद् लङ्घनात्, दोषोऽजीर्णात्मकः ॥१५९॥ कल्पता आरोग्यम् ॥१६१।। कापथविलोकनादेकैकनयानुसारिजिनप्रणीतागमवचनैकदेशस्वयुक्तिनिरपेक्षान्ययुक्तिविचारणात् बहवो निहवा जज्ञिरे ॥१६३।। दुरधिगम्यो दुष्पाप्यः यतो विरतिरत्नप्राप्तावपि विरागमार्गविजयस्तेन प्राप्तो भवति येन सर्वविरतिरवाप्नोति । विधुरेण विह्वलेन ॥१६४॥ यत्किञ्चिद्व्यरूपमुपकरणं रजोहरणपात्रादि भक्तपाने च चतुर्विधाहाररूपे, देहः शरीरमेव, एते चत्वारो विकृत्यन्नपानसंश्लिष्टाः । अविशुद्धकोटिसंसृष्टा रुधिराद्यवयवस्पृष्टा, अधिकारो विषयो गोचरो यस्य तत्तथा । भावशौचस्य सर्वेषु कार्येषु निरुपलेपनायाः क्रियायाः अनुपरोधात् अपीडनात् ॥१७१॥ त्यक्तभयविग्रहः त्यक्तभयकलहः त्यक्तात्मातिलोभात्मा ॥१७३।। पौर्वापर्येण जिनवचनानामविघटनमविसंवादनयोगः । अजिह्मता अवक्रता ॥१७४॥ दृढानां वज्रदुर्भेदानां, रूढानां चिरकालावस्थितिप्राप्तस्थैर्याणाम् ।।१७९।। व्यतिकरः संपर्कः, वैराग्य विरक्तता, मार्गः पूर्वमहर्षिसमाचीर्णक्रियाकलापपरता, . सद्भावा जीवादयः, एषां भावना बुद्धिश्च । एतानि सर्वाणि धर्मस्थैर्यजनकानि ॥१८१।। आक्षिप्यन्ते धर्म प्रत्यभिमुखाः प्राणिनो यया सा आक्षेपणिः । विक्षिप्यन्ते परापरदोषकथने न प्रेर्यन्ते प्राणिनो यत्र सा विक्षेपणिः । विमार्गाः जैनमार्गादन्ये एकान्तमतावलंबिनो मार्गाः, तेषां बाधने समर्था पदरचना यस्याः सा तथा ताम् ॥१८२॥ आत्मनि परावर्त(न)रूपे ॥१८३।। जीवा च संख्येयप्रदेशात्मकाः सकलो(पो?)पयोगभाजः ॥१८९।। लक्षणतो असाधारणस्वरूपतः ।।१९।। एवमनेकप्रकाराणामेकैको विधिरेकैको भेदः । अनन्तकालवर्तित्वादनन्तपर्यायः, अनन्तपर्याया धर्मा यस्य । अन्तर्मुहूर्तादारभ्य त्रयस्त्रिंशत्सागरोपमानि यावत् स्थितयः, अंगुलासंख्येयभागमात्रादारभ्य यावत्समस्त. लोकावगाहः, पर्यायास्तारतम्यकृतविशेषाः ॥१९३॥ साकारो वस्तुविशेषः परिच्छेदरूपः, Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 174 175 176 177 178 179 180