Book Title: Prashamratiprakaran
Author(s): Umaswati, Umaswami, Yajneshwar S Shastri
Publisher: L D Indology Ahmedabad
________________
100
श्री जससोमगणिविरचितप्रशमरतिप्रकरणस्य संक्षेपतोऽर्थवृत्तिः
आचाराड्ग ।।११२।। आचारस्याध्ययनार्थाधिकारद्वारेण लेशतोऽर्थमाह-षट्सु जीवेषु निकायेषु यतना यत्नतः तद्रक्षणे ज्ञानपूर्वको व्यापारः, लोकविजयो लौकिकसन्तानः पितृन्वयः, स्वजनसम्बन्धिन: पत्नीपुत्रादयस्तेषु गौरवमा दरस्तत्त्यागः । शीतोष्णीयाध्ययने शीतोहणादि परीषहादि विजयः । स्त्रीपरीषहो सत्कारपरीषहो भवतः, शीतौ शेषाः, विंशतिरुष्णाः ।।११४।। स्थानं कायोत्सर्गरूपम्, निषद्या स्वाध्यायादि योग्या भूमिः, व्युत्सर्गः त्यागः । एवं विधा शब्दाः श्रयमाणा उच्यमानाश्च यतेः बन्धाय स्युः । तथैवं विधानि रूपाणि विलोक्यमानानि यतेः कर्मबन्धाय स्युः । क्रियाः पादाङ्गधावनादिकाः परेण क्रियमाणा: पराः स्वाद्यमानीया (य)तेः कर्मबन्धायेति, अन्योऽन्येति अन्यः साधुग्न्यस्य साधोः क्रिया पादधावनादिका करोति सा चास्वाद्यमाना यतेः कर्मबन्धायेति ॥११७।। यस्मिन् कालविवरेऽभिभवो रागादिभिरिति ॥११९॥ तुष्टैतोषे कर्तव्ये यावच्चेष्टते प्रयासः क्रियते तावत् ॥१२३।। या च लोकवार्ता कृष्यादिभिकिनिर्वाहः । या च देहवान्निपानवसनादिभिः शरीरनिर्वाहः । तव्यमपि शोभनं क्षात्यादिनिर्वाहहेतुकम् ॥१३०॥ शरीर नासाधनिकं किंतु ससाधनं, लोकाधीनानि जनायत्तानि साधनान्याहारोषधिप्रभृतीनि क्षमादेरविरोधात् ॥१३२।। गडुलेपः, अक्षस्य धुरः उपांगं म्रक्षणादि, असङ्गाःसाधवस्तेषां योगाः संयमव्यापाराः तेषां भरः समूहस्तन्मात्रं तस्य यात्रार्थ मुंजीताहारपिण्डम् । यथा हि पन्नगो भक्ष्यं तृप्त. र्थ समगृणहन् असते न चर्वति एवं साधुरपि पुत्रिकाया वा पलं तद्वत् । यथा हि चिलाति पुत्रव्यापादितदुहितृमांसं तस्या पितुः भ्रातृणां च भक्षयतामपि न तद्रसगृध्यर्थ समभवत् किन्तु धारणार्थ, एवं साधुरपि देहधारणार्थ आहारं करोति न रसगृध्यर्थ इति भावः ॥१३५।। दारूपमा अविकारिणी सर्वत्रैक स्वभावा धृतिः यस्य स तथा । यथा अचेतनं काष्ठं रागद्वेषरहितं स्यात्तथा साधुनाप्यरक्तधिष्टेनास्वाद्यं, विशिष्टतरस्वादं तदितरच्च वस्तु कल्पं भक्षणीयं भवतीति तत्र गुणवद्वस्तु अमूर्छितमनसा साधुना भोक्तव्यम् । विपरीतं अगुणवच्चाप्रदुष्टेन भोक्तव्यमिति भावः ॥१३६॥ कालं उष्ण हालादिकं, क्षेत्रं स्निग्धतरादि, मात्रामरूपादि स्वाहारपरिमाणं, स्वात्म्य यस्य यदुपभुक्तं परिणतिमेति देशकालविरुद्धमपि तत्स्वात्म्यमुच्यते । द्रव्यादीनां घृतगुडादीनां गुरुत्वं लघुत्वं, यद्वा येन द्रव्येण भुक्तेन गुणानां गौरव लाघव चात्मनः स्यात्तदभ्यवहार्य भोजनीयमन्नादि ॥१३७॥ अतिस्निग्धादि अकल्पमपि कल्पवते (), विकारिणां किञ्चित्करप्यमपि अकलप्यं स्यादजीर्णेन परिभोगवत् । किञ्चिदकल्प्यमपि कल्प्यं सरोगम्यौषधवत् ॥१४५।। देशं ग्रामारण्यादिकं, कालं सुभिक्षदुर्भिक्षादिकं, पुरुषं श्रेष्ठिपुत्र राजपुत्रेतरभेदभिन्नं,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 173 174 175 176 177 178 179 180