Book Title: Prashamratiprakaran
Author(s): Umaswati, Umaswami, Yajneshwar S Shastri
Publisher: L D Indology Ahmedabad

Previous | Next

Page 173
________________ श्री जस सोमगणिविरचितप्रशमरतिप्रकरणस्य संक्षेपतोऽर्थवृत्तिः दागमः । तस्माते विना ।।६६।। आगमव्रतमूलनिर्णय प्रति निकषः यः कषपट्टसमानः ॥६८॥ अहितसमाचरणधर्मनिर्वापी, अपथ्यासेवनतापापनोदनकर्ता गुरूणां वदनं तदेव मलयो मलयाचलपर्वतः तस्मान्निसृतो निर्गतः ॥७०।। तपसोऽनशनादिर्बलं संवरफलंम् । मनोवाक्कायवर्गणोऽवष्टम्भजनितपरिस्यन्दान्निष्काया क्रियायाः । क्रियाया निवृत्तिर पगमः । अयोगित्वं शैलेशिप्राप्तिरूपम् ।।७३।। दृष्टिरलपकालः स एव मात्रा परिमाणं येषां ते च ते विषयाश्च शब्दादयस्तेषु सङ्गः सम्बन्धः । तस्माद्धेतोः किमित्याह अजरामरणी वयमिति विकल्पपरा लौकिकसिद्धा इव निरुद्विग्ना निर्भया वर्तन्ते । न कदाचिदस्माकं जरामरणादि भविष्यतीति मन्यन्ते ॥७५।। एतदेव दृष्टान्तेनाह के(चि)द् सातेति ॥ आमिषपरा इन्द्रियानुकूलविषयोपभोगपराः ॥ मृतकरिकलेवरापानप्रविष्टमांसास्वादकगृद्धकाकवत्, आमिषपरा इत्यनेन च रसगौरवस्येव इत्यपायबहुलता दर्शिता, तेन तथा सातदिगौरवे बहुलप्रत्ययोऽयम् ।। ७६ ॥ जात्याऽवितथा हेतवः साध्याविनाभाविनः उत्पत्तिमत्त्वादयः, दृष्टान्ताश्चरितकलपितोदाहरणस्याद्यस्योपमाभूताः अङ्गुल्यादयः खरविषाणादयश्च, तैनिष्पन्न प्रतिष्ठितम व्याहतमित्यर्थः । यथा सन्ति जीवादयः उत्पत्तिमत्वात् विनाशवत्त्वात् स्थितिमत्त्वाद्वा यथाङ्गुल्यादयः, यथाङ्गुलिरेकस्मिन्नेवकाले मूर्तत्वेनावस्थिता, वक्रत्वेन विनष्टा, ऋजुत्वेनात्मना सती उत्पाद-स्थिति-व्ययवती वर्तते तथा आत्मादयोऽपि सर्व पदार्थाः । सर्वज्ञवागेव रसायनं हेत्वादिसिद्धम् । तथा अविरुध्दं सम्यग् विधिनोपयुज्यमानं वपुरजरं करोति वलीपलितरहितम् । अभयं क्षुद्रोपद्रवादिभयरहितम् । सर्वज्ञवचोऽपि अजरं अपरापरप्रदानेऽप्यक्षीणं, उपनीतं दीयमानं, ते रसादि गौरववन्तः पुरुषा न बहुमन्यन्ते ॥७७।। जातिःमातृभवा, पितृभव कुलं, वाल्लभ्यकं प्रियत्वम् ॥ ८० ॥ असदनुष्ठानं अशुद्धम् । ॥ ८४ ॥ पितृमातृनिन्द्यावयवभवस्य वृद्धिहानिधर्मकस्य रोगजरास्थानस्य ॥ ८५ ॥ लोभान्तरायस्योद(यो) विपाकोऽनुदयः उपशमः ॥८९॥ परो दाता तस्य दानांतरायक्षयोपशमजनिता शक्तिः, अभिप्रसादस्तु तस्यैव दातुर्यसाधून प्रति अभिप्रसन्नं चेतो भवति, यन्मुक्तिसाधका एते । एतेभ्यो दत्तं बहुफलं भवतीति ।।९०॥ ग्रहणमुपाध्यायादेः सूत्रादीनां, उग्राहणं प्रमाणोपन्यसनं, नवकृतिः नवकाव्यकरणं, विचारणं जीवादिपदार्थविषयम्, अर्थावधारणं अर्थाभिधेयनिर्णयः । बुद्धीनां पूर्वोक्तस्वरूपाणां अङ्गानि शरीराणि "सुस्सूसई" इत्यादि विधयः करणानि, तभेदास्तेषु अनन्ता बहवः पर्यायास्तवृध्द गतेषु ॥११॥ श्रीमत् श्रीगौतमादयः ॥९२।। चटुकर्म चटुवाक्यकर्मनिमित्त मातापितृसम्बन्धादिकं Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 171 172 173 174 175 176 177 178 179 180