Book Title: Prashamratiprakaran
Author(s): Umaswati, Umaswami, Yajneshwar S Shastri
Publisher: L D Indology Ahmedabad

View full book text
Previous | Next

Page 172
________________ Appendix-IV Jain Education International व्याप्तः ।। २१ ।। बन्धनं स्पष्टम् । सूचीकलापस्य खपरिकया ( ? ) अन्योऽन्यबन्धनमित्र बद्धं धमातं परस्परमुल्ललितत्वं निकाचितम् । वह्नितप्तसूचीनां कुट्टितसूचीनां निर्नष्टविभागत्वम् ||२२|| कर्षितो विलिखितः ॥२३॥ उद्देष्टुं वक्तु-. मपि ॥ २४ ॥ संसारभ्रमविषमाध्वप्रणेतारो नायकाः ||३०|| ममकाराहङ्कारेति मदमहमस्य स्वामीत्याद्यध्यवसायो ममकारः । अहमेव प्रधानोऽन्यो ममाधमः इत्यादि परिणामस्तौ । तत्र ममकारे मायालोभौ, अहंकारे क्रोधमानौ अन्तभवतः ॥ ३१ ॥ अथ रागद्वेषयोः सैन्यसामर्थ्य माह, मिथ्या विपरीत दृष्टि: मिथ्या - त्वम् । अविरतिः प्रमादः पञ्चप्रकारो मद्यादि, योगाः सत्यादयः पञ्चदश, तैरुपगृहीतौ मिथ्यात्वादिभिः कृतसामर्थ्यं सन्तौ ॥ ३३ ॥ स पूर्वोदिष्टोऽष्टधा कर्मबन्धः ॥३४॥ सप्तभिर्गुणैः गुणनं यस्य । षट्कश्चासौ सप्तगुणश्चेति षट्कसप्तगुणः, नामकर्मणो द्विचत्वारिंशद् भेदः इत्यर्थः, ततः भेदा यस्य स तथा ||३५|| अविनाशेनावस्थिति: स्थितिः, अनुभागो रसः, प्रदेशो दलसञ्चयः । बन्धोदयोर्विशेषो भेद्रः ॥३६॥ तत्र तेषु, प्रकृतिबन्धादिषु योगान्मनोवाक्कायात्तस्माच्छुभाशुभतर इतरस्मादितरः ||३७|| वर्णों हरिताला दिवर्णकदाढर्यस्य || ३८ || देहादिन्द्रियनिर्वृतिः : तस्यां विषयशक्तिः, विषयनिमित्ते सुखदुःखे जीवस्य ||३९|| मोहेनान्धो विवेकलोचन - : विकलो अज्ञातगुणदोषः ||४०|| देहादिन्द्रियविषया इत्युक्तं प्राक्तदासक्तस्यापायानपा यपञ्चकेनाह-कलरिभितं घोलनासारं, मधुरं श्रोत्रसुखदं योषिद्विभूषणानि नूपुरादीनि ॥४१॥ सुगन्धिजलस्नानं वर्तिर्गात्रानुलेपिनी, वर्तीनां समूहो वार्तिकं, पटवासः सौरभ्यकारी गन्धविशेषः || ४३ || लोहमयोऽङ्कुशमयोगलि: यन्त्रजाल, पाशो वालादिमयः तैर्बद्धो विवशीकृतः || ४४ || सम्बाधनं विश्रामणा ||४५ || नहि सोऽस्तीन्द्रियविषयो ||४८ || शुभोऽपि विषयो रूपादिः परिणामवशात् मृतकलेवरादिवशादशुभ: स्यात्, अशुभोऽपि कचवरादिः || ४९ || कारणवशेन निमित्तसामर्थ्येन यत्प्रयोजनमर्थो जायते, यथा येन प्रकारेण स्यात्तथा तेनैव प्रकारेण तमर्थं शुभमशुभं चिन्तयति, तथा शत्रुघ्नं विषं शुभं चिन्तयति, पितृघ्नं तदशुभम् ॥५०॥ सुखीनां केषाञ्चिदिष्टो विषयो वीणागायनादिध्वनिः बुभुक्षितार्थस्य पिपासितस्य च स एवानिष्टः स्यादिति । न किञ्चिदिष्टमनिष्टं वा समस्ति ॥ ५२ ॥ नवकोटयो हननपचनक्रयणरूपास्ताभिरुद्गमा - दिभिश्च यच्छुद्धं यदुञ्छमात्रं भैक्ष्यं तेन यात्राधिकारः, संयमयात्राधिकारो निर्वाहो यस्य ||६०|| दर्शनमोहनीय कर्मणः क्षयेण दर्शनशुद्धिरूपं परिणामं, अन्योन्यं स्वदर्शनः परदर्शनापेक्षयात्तरोत्तरं विशेषं पश्यतः ॥ ६२ ॥ शास्त्रं आचारादि । गुरुपरम्परयागमना - 97 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 170 171 172 173 174 175 176 177 178 179 180