Book Title: Prashamratiprakaran
Author(s): Umaswati, Umaswami, Yajneshwar S Shastri
Publisher: L D Indology Ahmedabad

Previous | Next

Page 177
________________ 102 श्री जस सोमगणिविरचितप्रशमरतिप्रकरणस्य संक्षेपताऽर्थवृत्तिः अनाकार उपयोगस्तु सामान्यवस्तु परिच्छेदरूपः ॥ १९४ ॥ मतिश्रुतावधि यो मिथ्यात्वोदयोपशमस्वभावा अज्ञानतां प्रतिपद्यन्ते ॥ १९५॥ उदयिको जीवोपात्तकर्मणामुदयरूपो देवनारकादि पर्यायकारी, पारिणामिको जीवः भव्याभव्यत्वादिरूपस्त्रिकालतदविच्युतिस्वरूपः । उपशमः कर्मणां विपाकप्र देशद्वयरूपोदयाभावस्तेन निर्वृत्तः उपशमिकः, सम्यकूत्व चारित्रज्ञानदानादिरूपः क्षयोत्थः, छद्मस्थज्ञान दिरूपः क्षयोपशमजो भावः ॥ १९६ ॥ जीवाजीवानां द्रव्याणां यद् द्रव्यं स्थित्यंशरूपं तदात्मा भण्यते । नहि तानि ताद्रूप्यं कदाचन त्यजन्तीति कृत्वा ||२०|| “ कारणमेव तदन्त्यं सूक्ष्मो नित्यश्च भवति परमाणुः । एकरसवर्णगन्धो द्विस्पर्शः कार्यलिङ्गश्च" ॥२०८॥ आनतप्राणता (का?)वेक एव कल्पः एकेन्द्रस्वामित्वादेवमारणाच्युतावप्येक एव । तेन दशकल्पाः । त्रीणि मैत्रेयकानि अधोमध्यमोपरितनभेदेन पञ्चमहाविमानानि चतुर्दशभेदः । ईषत् प्रागभाराख्यः पञ्चदशभेदः । एवं पञ्चदशभेदः ऊर्ध्वलोकः ॥ २१२ ॥ चतुष्टयं जीव जीवधर्म पुद्गलाख्यम् । अवशेषं समस्तलोका संख्येय मागादिकम् । एको जीवः पृथिव्यादिको व्याप्नोति वाशब्दात् समस्तलोकं केवलिसमुद्घाते केवली च व्याप्नोति ॥ २१३|| सूक्ष्मतापरिणामः स्कन्धानामेव, तत्सद्भावेन ते साक्षादिन्द्रियग्राह्याः । भेदो द्वयादि स्वन्धानां पृथग्भवनं, सर्वे ऽप्येते पुद्गलद्रव्यस्योपकारकाः || २१६॥ संसारिणो जीवस्य स्कन्धाः प्रभूताणुसमुदायाः ॥ २१७॥ योगः, तस्य योगस्य विपर्यासः ।। २२० ।। सवृतः संवृतात्मा || २२१ || शिक्षा जिनोदिन क्रियाकलापस्य पुनः पुनरभ्यासः । २२३ ।। अनविगमोऽर्थस्य नैयत्येना परिच्छेदः, विपर्ययो विपरीतार्थग्राहिप्रत्ययः ॥ २२४ ॥ विस्तराधिगमो विस्तरपरिच्छेदः, एकस्मिन् जीवे भाज्यानि विकल्पनीयानि चत्वारि यावत् यथा एकस्मिन् जीवे एक मतिज्ञानं शास्त्रपाठनश्रवणाभावात् । तत्वतस्तु सर्वत्र मतिश्रुते ते एव अवधियुते श्रीणि, चत्वरि मतिश्रुतावधिमन: पर्यायज्ञानानि ॥२२६॥ समो रागद्वेषविकल्पपरिणामः, तस्य यो लाभस्तत्र भवं सामायिकम् । प्राक्तनपर्यायस्य छेदः उत्तरस्य पर्यायस्य उपस्थ, पनं छेदोपस्थापनं, तत्र भव छेदोपस्थापनिकम् । परिहरणं परिहारस्तेन विशुद्ध ॥ २२८ ॥ अनुयोगैः किं कतिविधं कस्येत्यादिरूपैः ।। २२९ ॥ तत्परेषु साधुषु जिनेषु भक्तिरांतरा प्रीतिः । उपग्रहस्तदुचितान्नशनशयनासनादिदानरूपः । समाधिः स्वपरयोः स्वास्थ्यं एषां करणेन ॥२३४॥ अनुष्यस्यानभिभवनीयस्य || २३५|| विनिवृत्ताः अपगताः परस्मिन् वस्तुनि आशा : येषां ते तथा ।। २३८। खन्ती अज्जव मद्दव मुत्तीतव संजमे अबोधववे, सच्च पुसंच्चं सो अ आकिचणं च । बलं च जइघम्नो इति दशविधाद्यतिधर्मात् । तथा पृथिव्यप्तेजोवायुवनस्पतित्र सरूपपजीवनिकायात् श्रोत्रं चक्षुर्वाणरसना स्पर्शने I Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 175 176 177 178 179 180