Book Title: Prashamratiprakaran
Author(s): Umaswati, Umaswami, Yajneshwar S Shastri
Publisher: L D Indology Ahmedabad
View full book text
________________
प्रशमरत्यन्तर्गतसुभाषितानि
१४. गुर्वायत्ता यस्माच्छास्त्रारम्भा भवन्ति सर्वेऽपि ।
तस्माद् गुर्वाराधनपरेण हितकाक्षिणा भाव्यम् ।।६९।। १५. तच्चिन्त्यं तद्भाष्यं तत्कार्य भवति सर्वथा यतिना ।
नात्मपरोभयबाधकमिह यत्परतश्च सर्वाद्धम् ।।१४७।। १६. तद्वदुपचारसम्भृतरम्यकरागरससेविता विषयाः ।।
भवशतपरम्परास्वपि दुःखविपाकानुबन्धकराः ।।१०९।। १७. दुष्पतिकारौ मातापितरौ स्वामी गुरुश्च लोकेऽस्मिन् ।
तत्र गुरुरिहामुत्र च सुदुष्करतरप्रतीकारः ॥७१॥ १८. दृढतामुपैति वैराग्यभावना येन येन भावेन ।
तस्मिंस्तस्मिन् कार्यः कायमनोवाग्भिरभ्यासः ॥१६॥ १९. देशकुलदेहविज्ञानायुबलभोगभूतिवैषम्यम् ।
दृष्ट्वा कथमिह विदुषां भवसंसारे रतिर्भवति ॥१०२।। २०. धन्यस्योपरि निपतत्यहितसमाचरणधर्मनिर्वापी ।।
गुरुवदनमलयनिसृतो वचनसरसचन्दनस्पर्शः ॥७॥ २१. न तथा सुमहाधैरपि वस्त्राभरणैरलकृतो भाति ।
श्रुतशीलमूलनिकषो विनीतविनयो यथा भाति ।।६८।। २२. न हि सोऽस्तीन्द्रियविषयो येनाभ्यस्तेन नित्यतृषितानि ।
तृप्ति प्राप्नुयुरक्षा ण्यनेकमार्गप्रलीनानि ॥४८॥ २३. निर्जितमदमदनानां वाक्कायमनोविकाररहितानाम् ।
विनिवृत्तपराशानामिहैव मोक्षः सुविहितानाम् ।।२३८।। २४. नैवास्ति राजराजस्य तत्सुखं नैव देवराजस्य ।
यत्सुखमिहैव साधोर्लोक व्यापाररहितस्य ॥१२८।। २५. बालस्य यथा वचनं काहलमपि शोभते पितृसकाशे ।।
तद्वत्सज्जनमध्ये प्रलपितमपि सिद्धिमुपयाति ॥११॥ २६. माता भूत्वा दुहिता भगिनी भार्या च भवति संसारे ।
व्रजति सुतः पितृतां भ्रातृतां पुनः शत्रुतां चैव ||१५६॥ २७. मायाशील: पुरुषो यद्यपि न करोति किश्चिदपराधम् ।
सर्प इवाविश्वास्यो भवति तथाप्यात्मदोषहतः ॥२८॥ २८. मिष्टान्नपानमांसौदनादिमधुररसविषयगृद्धात्मा ।
गलयन्त्रपाशबद्धो मीन इव विनाशमुपयाति ॥४४।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180