Book Title: Prashamratiprakaran
Author(s): Umaswati, Umaswami, Yajneshwar S Shastri
Publisher: L D Indology Ahmedabad

View full book text
Previous | Next

Page 157
________________ 82 प्रशमरस्यन्तर्गतसुभाषितानि ४४. सद्भिः सुपरिगृहीतं यत्किञ्चिदपि प्रकाशतां याति । मलिनोऽपि यथा हरिणः प्रकाशते पूर्णचन्द्रस्थः ॥१०॥ ४५. सम्यक्त्वज्ञानचारित्रसम्पदः साधनानि मोक्षस्य । तास्वेकतराभावेऽपि मोक्षमार्गोऽप्यसिद्धिकरः ॥२३०॥ ४६. सर्वविनाशाश्रयिण: सर्वव्यसनैकराजमार्गस्य । लोभस्य को मुखगतः क्षणमपि दुःखान्तरमुपेयात् ।।२९।। ४७. स्नानाङ्गरागवर्तिकवर्णकधूपाधिवासपटवासैः । गम्धभ्रमितमनस्को मधुकर इव नाशमुपयाति ॥४३॥ ४८. स्नेहाभ्यक्तशरीरस्य रेणुना ग्लिप्यते यथा गात्रम् रागद्वेषकिलन्नस्य कर्मबन्धो भवत्येवम् ॥५५॥ ४९. स्वर्गसुखानि परोक्षाण्यत्यन्तपरोक्षमेव मोक्षसुखम् । प्रत्यक्षं प्रशमसुख न परवशं न व्ययप्राप्तम् ॥२३७॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180