________________
81
Appendix-II
२९. यद्यपि निषेव्यमाणा मनसः परितुष्टिकरा विषयाः ।
किम्पाकफलादनवद्भवन्ति पश्चादतिदुरन्ताः ॥१०७।। ३०. यद्वदुपयुक्तपूर्वमपि भेषजं सेव्यतेऽर्तिनाशाय ।
तद्वद्रागार्तिहरं बहुशोऽप्यनुयोज्यमर्थपदम् ॥१४॥ ३१. यद्वद्विषघातार्थ मन्त्रपदे न पुनरुक्तदोषोऽस्ति ।
तद्वद्रागविषघ्नं पुनरुक्तमदुष्टमर्थपदम् ॥१३।। ३२. यद्वच्छाकाष्टादशमन्नं बहुभक्ष्यपेयवत् स्वादु ।
विषसंयुक्तं भुक्तं विपाककाले विनाशयति ॥१०८।। ३३. यस्माद्रागद्वेषोद्धतचित्तान् समनुशास्ति सद्धर्मे ।
सन्त्रायते च दुःखाच्छास्त्रमिति निरुच्यते तस्मात् ॥१८७।। ३४. यत्सर्वविषयकाङ्क्षोद्भवं सुखं प्राप्यते सरागेण ।
तदनन्तकोटिगुणितं मुधैव लभते वीतरागः ॥१२५।। ३५. यावत्परगुणदोषपरिकीर्तने व्यापृतं मनो भवति ।
तावरं विशुद्ध ध्याने व्यग्रं मनः कर्तुम् ॥१८४॥ ३६. यावत्स्वविषयलिप्सोरक्षसमूहस्य चेष्टयते तुष्टौ ।
तावत्तस्यैव जये वरतरमशठं कृतो यत्नः ॥१२३॥ ३७. लोकः खल्वाधारः सर्वेषां ब्रह्मचारिणां यस्मात् ।
तस्माल्लोकविरूद्धं धर्मविरुद्धञ्च सन्त्याज्यम् ॥१३१॥ ३८. वृत्त्यर्थ कर्म यथा तदेव लोकः पुनः पुनः कुरुते ।
एवं विरागवार्ताहेतुरपि पुनः पुनश्चिन्त्यः ॥१५।। ३९. शयनासनसम्बाधनसुरतस्नानानुलेपनासक्तः ।
स्पर्शव्याकुलितमतिः गजेन्द्र इव बध्यते मूढः ॥४५॥ ४०. शास्त्रागमादृते न हितमस्ति न च शास्त्रमस्ति विनयमृते ।
तस्माच्छास्त्रागमलिप्सुना विनीतेन भवितव्यम् ॥६६॥ ४१. शास्त्राध्ययने चाध्यापने च सश्चिन्तने तथाऽत्मनि च ।
धर्मकथने च सततं यत्नः सर्वात्मना कार्यः ॥१८५।। ४२. श्रुतशीलविनयसन्दूषणस्य धर्मार्थकामविघ्नस्य ।
मानस्य कोऽवकाशं मुहूर्तमपि पण्डितो दद्यात् ।।२७॥ ४३. स क्रोधमानमायालोभैरतिदुर्जयैः परामृष्टः ।
प्राप्नोति याननर्थान् कस्तानुद्देष्टुमपि शक्तः ॥२४॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org