Book Title: Pramanprameykalika
Author(s): Narendrasen  Maharaj, Darbarilal Kothiya
Publisher: Bharatiya Gyanpith

View full book text
Previous | Next

Page 107
________________ प्रमाणप्रमेयकलिका [१.६ १ -- न्या सू० २-१-१८ । 'प्रमेयसिद्धिः प्रमाणाद्धि ।' --सांख्यका० ४ । 'प्रमाणसिद्धिः परतो वा स्यात् स्वत एव वा ? यदि यथा प्रमेयसिद्धिः प्रमाणाधीना एवं प्रमाणसिद्धिरपि प्रमाणान्तराधीना इति तस्याप्यन्यत् तस्याप्यन्यत् इत्यनवस्था । अथ स्वत एव सिद्धिः, एवमपि यथा प्रमाणस्य स्वत एव सिद्धिः तथा प्रमेयस्यापि प्रमेयात्मन एव सिद्धिरिति प्रमाणव्यवस्था कल्पना न घटते ।-तत्त्वार्थवात्तिक ५० ३५ । 'नन् प्रमाणसिद्धिः प्रमाणान्तरतो यदि । तदानवस्थिर: पत्प्रमाणान्वेषणं वृथा ।'-तत्त्वार्थश्लो० पृ० १७८। 'सकलशून्यतामभ्यगच्छताऽपि प्रमाणाभावस्य कर्त मशक्यत्वात् । तथा हि-सकलशून्यवादिनोऽपि अस्ति प्रमाणम्, इष्टानिष्टयोः साधनदूषणान्यथानुपपत्तेः । न चैवमनवस्था, इष्टसिद्धेः अनिष्टप्रतिषेधस्य च प्रतिप्राणि प्रसिद्धत्वेन अशेषवादिना निर्विवादतः प्रमाणान्तरापेक्षानुपपत्तेः।-न्यायकु० पृ० २२ । 'ननु सिद्धेऽपि प्रमाणसद्भावे तत्स्वरूपविशेषनिश्चयासिद्धिः, ज्ञानाज्ञानरूपतया तत्र वादिनां विप्रतिपत्तेः ।'-न्यायकु. पृ २३ । विभिन्नवादिभिर्यानि प्रमाणलक्षणान्यम्युपगतानि तानीत्थम-तत्र सांख्या:-'प्रमीयतेऽनेन इति निर्वचनात् प्रमा प्रति करणत्वं गम्यते । असन्दिग्धाऽविपरीताऽनधिगतविषया चित्तवृत्तिः बोधश्च पौरुषेयः फलं प्रमा, तत्साधनं प्रमाणमिति ।'-सांख्यतत्त्वकौ० पृ० १९ । योगद० तत्त्वदै० पृ० २७ । 'द्वयोरेकतरस्य वाप्यसन्निकृष्टार्थपरिच्छित्तिः प्रमा, तत्साधकतमं यत् तत् त्रिविधं प्रमाणम् ।'-सांख्यद० १-८७ । 'प्रमाणं वृत्तिरेव च ।'-योगवा० पृ० ३० । वैशेषिकाः'अदुष्टं विद्या ।'-वैशेषि० सू० ६-२-१ । 'अदुष्टेन्द्रियजन्यं यत्र यदस्ति तत्र तदनुभवो वा, विशेष्यवृत्तिप्रकारकानुभवो वा विद्या ।'-वैशेषिकसूत्रोपस्कार पृ० ३४४ । नैयायिकाः–'उपलब्धिहेतुश्च प्रमाणम् ।'न्यायभा० पृ० ९९ । न्यायवा० पृ० ५ । 'सम्यगनुभवसाधनं प्रमाणम् ।'न्यायसार पृ० १। 'अव्यभिचारिणीमसन्दिग्धामर्थोपलब्धिं विदधती बोधा Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160