________________
प्रमाणप्रमेयकलिका
[१.६ १
-- न्या सू० २-१-१८ । 'प्रमेयसिद्धिः प्रमाणाद्धि ।' --सांख्यका० ४ । 'प्रमाणसिद्धिः परतो वा स्यात् स्वत एव वा ? यदि यथा प्रमेयसिद्धिः प्रमाणाधीना एवं प्रमाणसिद्धिरपि प्रमाणान्तराधीना इति तस्याप्यन्यत् तस्याप्यन्यत् इत्यनवस्था । अथ स्वत एव सिद्धिः, एवमपि यथा प्रमाणस्य स्वत एव सिद्धिः तथा प्रमेयस्यापि प्रमेयात्मन एव सिद्धिरिति प्रमाणव्यवस्था कल्पना न घटते ।-तत्त्वार्थवात्तिक ५० ३५ । 'नन् प्रमाणसिद्धिः प्रमाणान्तरतो यदि । तदानवस्थिर: पत्प्रमाणान्वेषणं वृथा ।'-तत्त्वार्थश्लो० पृ० १७८। 'सकलशून्यतामभ्यगच्छताऽपि प्रमाणाभावस्य कर्त मशक्यत्वात् । तथा हि-सकलशून्यवादिनोऽपि अस्ति प्रमाणम्, इष्टानिष्टयोः साधनदूषणान्यथानुपपत्तेः । न चैवमनवस्था, इष्टसिद्धेः अनिष्टप्रतिषेधस्य च प्रतिप्राणि प्रसिद्धत्वेन अशेषवादिना निर्विवादतः प्रमाणान्तरापेक्षानुपपत्तेः।-न्यायकु० पृ० २२ । 'ननु सिद्धेऽपि प्रमाणसद्भावे तत्स्वरूपविशेषनिश्चयासिद्धिः, ज्ञानाज्ञानरूपतया तत्र वादिनां विप्रतिपत्तेः ।'-न्यायकु. पृ २३ । विभिन्नवादिभिर्यानि प्रमाणलक्षणान्यम्युपगतानि तानीत्थम-तत्र सांख्या:-'प्रमीयतेऽनेन इति निर्वचनात् प्रमा प्रति करणत्वं गम्यते । असन्दिग्धाऽविपरीताऽनधिगतविषया चित्तवृत्तिः बोधश्च पौरुषेयः फलं प्रमा, तत्साधनं प्रमाणमिति ।'-सांख्यतत्त्वकौ० पृ० १९ । योगद० तत्त्वदै० पृ० २७ । 'द्वयोरेकतरस्य वाप्यसन्निकृष्टार्थपरिच्छित्तिः प्रमा, तत्साधकतमं यत् तत् त्रिविधं प्रमाणम् ।'-सांख्यद० १-८७ । 'प्रमाणं वृत्तिरेव च ।'-योगवा० पृ० ३० । वैशेषिकाः'अदुष्टं विद्या ।'-वैशेषि० सू० ६-२-१ । 'अदुष्टेन्द्रियजन्यं यत्र यदस्ति तत्र तदनुभवो वा, विशेष्यवृत्तिप्रकारकानुभवो वा विद्या ।'-वैशेषिकसूत्रोपस्कार पृ० ३४४ । नैयायिकाः–'उपलब्धिहेतुश्च प्रमाणम् ।'न्यायभा० पृ० ९९ । न्यायवा० पृ० ५ । 'सम्यगनुभवसाधनं प्रमाणम् ।'न्यायसार पृ० १। 'अव्यभिचारिणीमसन्दिग्धामर्थोपलब्धिं विदधती बोधा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org