________________
श्रीनरेन्द्रसेनविरचिता प्रमाणप्रमेयकलिका
१. प्रमाणतत्त्व-परीक्षा ] जयन्ति निर्जिताऽशेष-सर्वथैकान्त-नीतयः ।
सत्यवाक्याधिपाः शश्वविद्यानन्दा जिनेश्वराः ॥१॥ [प्रमाण-प्रमेयद्वैविध्यात्तत्त्वं विभज्य प्रथमं प्रमाणतत्त्वपरीक्षा प्रस्तूयते-]
६१. ननु किं तत्त्वम् , तदुच्यन्ताम् । यतस्तत्त्वपरिज्ञानाभावान तदाश्रिता मीमांसा प्रमाणकोटिकुटीरकमटाट्यते । आधारापरिज्ञाने आधेयपरिज्ञानाभावात् । अथ भवतु नाम नामतः सिद्धं किंचित्तत्त्वम्, यतस्तत्त्वं सामान्येनाभ्युपगम्य पश्चाद्विचायते; तत्त्वसामान्ये केषांचिद्विप्रतिपत्त्यभावात् । तद्विचारणायां केनचिप्रमाणेन भवितव्यम् , प्रमाणाधीनत्वात्प्रमेयस्य । तत्रापि प्रमाण
१. 'आ' प्रतौ 'ॐ नमः सिद्धेभ्यः । अथ प्रमाणप्रमेयकलिका लिख्यते' इति, 'द' प्रतौ च 'अथ प्रमाणप्रमेयकलिका लिख्यते' इति प्रारम्भिकांश उपलम्भते । तदनन्तरं जयन्तीत्यादिनिबद्धम् । २. अयं मङ्गलश्लोकः श्रीमट्टिद्यानन्दविरचितायाः प्रमाणपरीक्षाया मङ्गलाचरणम् । तत एवात्र ग्रन्थकृतोद्धृतः । स्वीयग्रन्थारम्भे मङ्गलरूपतया निबद्धश्च । ३. अत्रेदं विज्ञेयम्-'प्रमाणतः सिद्धेः प्रमाणानां प्रमाणान्तरसिद्धिप्रसंगः।--न्या० सू० २-१-१० । 'तद्विनिवृत्तेर्वा प्रमाणसिद्धिवत् प्रमेयसिद्धिः'।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org