________________
-१. [१]
तत्त्व-जिज्ञासा : सामान्ये न केषांचिद्विप्रतिपत्तिरस्ति, तद्विशेषे तु स्वरूप-संख्याविषय-फललक्षणाश्चतस्रो विप्रतिपत्तयो भवन्ति । ततो भवतां मते प्रमाणस्य किं स्वरूपम् । कति प्रमाणानि । को वा विषयः । किं वा फलम् इति ।
बोधस्वभावा सामग्री प्रमाणम् ।'-न्यायमं० पृ० १२ । 'यथार्थानुभवो मानमनपेक्षतयेष्यते । मितिः सम्यक् परिच्छित्तिः तद्वत्ता च प्रामातृता ।। तदयोगव्यवच्छेदः प्रामाण्यं गोतमे मते ।' -न्यायकुसु० ४-५ । 'तद्वति तत्प्रकारकत्वरूपप्रकर्षविशिष्टज्ञानकारणत्वं प्रमाणत्वम् ।'-न्यायसू० ३० पृ० ६ । 'साधनाश्रयाव्यतिरिक्तत्वे सति प्रमाव्याप्तं प्रमाणम् ।'–सर्वद. सं०५० २३३ । 'प्रमायाः करणं प्रमाणम ।'--न्यायसि० मं० १०१। तर्कभाषा पृ० २। 'यथार्थ प्रमाणम् ।'-प्रमारणलक्षणटी० पृ. १ । बौद्धा:-'स्वसंवित्तिः फलं चात्र तद्रूपादर्थनिश्चयः । विषयाकार एवास्य प्रमाणं तेन मीयते ॥'-प्रमाणस० पृ. २४ । 'अज्ञातार्थज्ञापकं प्रमाणम् इति प्रमाणसामान्यलक्षणम् ।'-प्रमाणस० टी० पृ० ११ । 'प्रमाणमविसंवादिज्ञानमर्थक्रियास्थितिः । अविसंवादनं शाब्देऽप्यभिप्रायनिवेदनात् ॥'प्रमाणवा० २-१ । न्यायबि० टी० पृ० ५ । 'अर्थसारूप्यमस्य प्रमाणम् ।' न्यायबि० पृ० २५ । 'विषयाधिगतिश्चात्र प्रमाणफलमिष्यते । स्ववित्तिर्वा प्रमाणं तु सारूप्यं योग्यताऽपि वा ॥'-तत्त्वसं० १३४४ । मीमांसकाः'अनुभूतिश्च प्रमाणम् ।'-प्रकरणपं० पृ० ४२, शावरभाष्यवृह. १-१-५ । 'एतच्च विशेषणत्रयमुपाददानेन सूत्रकारेण कारणदोषबाधकज्ञानरहितं अगृहीतग्राहिज्ञानं प्रमाणं इति प्रमाणलक्षणं सूचितम् ।'शास्त्रदी० पृ० १५२ । 'अनधिगतार्थगन्तृ प्रमाणम् इति भट्टमीमांसका आहुः । --सि० चन्द्रोदय पृ २० । 'तत्रापूर्वार्थविज्ञानं निश्चितं बाधवजितम् । अदुष्टकारणारब्धं प्रमाणं लोकसम्मतम् ।।' कुमारिल, मीमांसाश्लो० वा० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org