________________
प्रमाणप्रमेयकलिका [१.६२[प्रभाकराभिमतस्य ज्ञातृव्यापारस्य प्रामाण्यनिरासः-]
६२. तत्रादौ तावत्स्वरूपं जागर्ति-तदेतत्किं ज्ञातृव्यापारः, इन्द्रियवृत्तिर्वा, कारकसाकल्यं वा, संनिकर्षो वा । ज्ञातृव्यापारश्चेत्, स च ज्ञातुर्भिन्नोऽभिन्नो वा । भिन्नश्चेत्संबन्धासिद्धिः। भेदसंब
१. 'ज्ञानं हि नाम क्रियात्मकं, क्रिया च फलानुमेया,ज्ञातृव्यापारमन्तरेण फलाऽनिरुपत्तेः।-न्यायम० पृ० १७ । 'ननु सन्निकर्ष-कारकसाकल्यइन्द्रियवृत्तीनाम् उक्तदोषदुष्टत्वान्माभूत् प्रामाण्यम, ज्ञातृव्यापारस्य तु भविष्यति, तमन्तरेण अर्थप्रकाशताख्यफलाऽनिष्पत्तेः। न हि व्यापारमन्तरेण कार्यस्योत्पत्तिः, अतिप्रसंगात् । कारकस्य कारकत्वमपि क्रियावेशवशादेव उपपद्यते, 'करोतीति कारकम्' इति व्युत्पत्तेः, इतरथा हि तद् वस्तुमात्रं स्यात्, न कारकम्, "क्रियाविष्टं द्रव्यं कारकम्' इत्यभिधानाात् ।तथा आत्मेन्द्रियमनोऽर्थसम्प्रयोगे सति ज्ञातुर्व्यापारोऽर्थप्राकट्यहेतुरुपजायते, अतोऽसौ प्रमाणम्, अर्थप्राकट्यलक्षणे फले साधकतमत्वात्, यत्पुनः प्रमाणं न भवति न तत् तत्र साधकतमम्, यथा सन्निकर्षादि, साधकतमश्च तल्लक्षणे फले ज्ञातृव्यापार इति ।'-न्यायकु० पृ० ४१-४२ । 'एतेन प्रभाकरोऽपि 'अर्थतथात्वप्रकाशको ज्ञातृव्यापारोऽज्ञानरूपोऽपि प्रमाणम्' इति प्रतिपादयन् प्रतिव्यूढः प्रतिपत्तव्यः; सर्वत्राज्ञानस्योपचारादेव प्रसिद्धः । न च ज्ञातृव्यापारस्वरूपस्य किंचित्प्रमाणं ग्राहकम्-तद्धि प्रत्यक्षम्, अनुमानम्, अन्यद्वा ?..'-प्रमेयक० पृ० २० । 'तेन जन्मैव विषये बुद्धे
ापार इष्यते । तदेव च प्रमारूपं तद्वती करणं च धीः ॥ व्यापारो न यदा तेषां तदा नोत्पद्यते फलम् ।'-मीमांसाश्लो० पृ. १५२ । 'अथवा ज्ञानक्रियाद्वारको यः कर्तृ भूतस्य आत्मनः कर्मभूतस्य च अर्थस्य परस्परं सम्बन्धो व्याप्तृव्याप्यत्वलक्षणः स मानसप्रत्यक्षावगतो विज्ञानं कल्पयति ।' -शास्त्रदी० पृ० २०२ । २. किं च, असौ धमिस्वभावः, धर्मस्वभावो वा ? प्रथमपक्षे ज्ञातृवन्न प्रमाणान्तर गम्यता ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org