________________
- १.६२]
ज्ञातृव्यापार-परीक्षा न्धाभ्युपगमेऽतिप्रसंगः। यथा ज्ञात्रा सह संबध्यते तथा पदार्थान्तरेणापि । भवतु वा यथाकथंचित् ज्ञातुरेव व्यापारः । स च किं क्रियात्मकोऽक्रियात्मको वा'। यद्याद्यः पक्षः, तदा सा क्रिया ततो भिन्नाऽभिन्ना वा । भिन्ना चेत्, पूर्वोक्तदोषानुषङ्गः । अथ पाश्चात्यः पक्षः, तदा ज्ञातृमात्र क्रियामात्रं वा भवति । अथाक्रियात्मकः, कथं व्यापारो नाम । व्यापारस्य क्रियारूपत्वात् । तन्नासौ भिन्नः । नाप्यभिन्नः, एकस्वरूपतापत्तेरनभ्युपगमाच ।
द्वितीयेऽपि पक्षे धर्मिणो ज्ञातुर्व्यतिरिक्तो व्यापारः अव्यतिरिक्तो वा, उभयम्, अनुभयं वा ? व्यतिरिक्तत्वे सम्बन्धाभावः । अव्यतिरिक्त ज्ञातैव तत्स्वरूपवत् । उभयपक्षे तु विरोधः । अनुभयपक्षोऽप्ययुक्तः; अन्योन्यव्यवच्छेदरूपाणां सकृत् प्रतिषेधायोगात्, एकनिषेधेनापरविधानात् ।' प्रमेयक० पृ० २४ । 'धर्मोऽपि किमास्मनो भिन्नः, अभिन्नो वा ? यद्यभिन्नः, तदा 'आत्मैव' इति प्रमाणतानुपपत्तिः । भेदे तु असम्बन्धात् तस्येति व्यपदेशानुपपत्तिः । -न्यायकु० पृ० ४५ ।। ...
१. 'तथापि क्रियारूपः, अक्रियारूपो वा स्यात् ? यदि क्रियारूपः; तदाऽसौ क्रिया परिस्पन्दस्वभावा, अपरिस्पन्दस्वभावा ? तत्राद्यविकल्पोऽपेशल; व्यापकत्वेनाऽऽत्मनः तथाभूतक्रियाश्रयत्वानुपपत्तेः।""द्वितीयविकल्पेऽपि अपरिस्पन्दः परिस्पन्दाभावः, वस्त्वन्तरं वा ? यदि परिस्पन्दाभावः; तदाऽस्य फलजनकत्वानुपपत्तिः, अभावस्य कार्यकारित्वविरोधात् । वस्त्वन्तरमपि किं चिद्रूपम्, अचिद्रूपम् वा ? चिद्रूपमपि कि धर्मी, धर्मो वा ? यदि धर्मी तदासी प्रमाणं न स्यत् आत्मवत् ।....'-न्यायकु० १० ४४ । 'यतोऽसौ क्रियात्मकः, अक्रियात्मको वा ? प्रथमपक्षे किं क्रिया परिस्पन्दात्मिका तद्विपरीता वा.? तत्राद्यः पक्षोऽयुक्तः; निश्चलस्यात्मनः परिस्पन्दात्मकक्रियाया अयोगात् । नापि द्वितीयः, तथाविधक्रियायाः परिस्पन्दाभावरूपतया फलजनकत्वायोगात्, अभावस्य फलजनकत्वविरोधात् ।'-प्रमेयक... पृ० २३ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org