________________
प्रमाणप्रमेयकलिका
[१. 8 ३
६३. किं च, असौ नित्योऽनित्यो वा । न तावन्नित्यः, कार्यत्वात्, घटवत् । नाप्यनित्यः, तदुत्पादककारणाभावात् । तस्योत्पादकं कारणं तावदात्मा न भवति, तस्य नित्यत्वाभ्युपगमात् । नित्यस्यार्थक्रियाकारित्वविरोधात् । अर्थक्रिया च क्रमयौगपद्याभ्यां ते च नित्यान्निवर्त्तमाने स्वव्याप्यामर्थक्रियामादाय निवर्त्तते । सापि स्वव्याप्यं सत्वम् । 1 नित्यं खरविषाणसदृशं स्यात् । तन्न ज्ञातृव्यापारः प्रमाणम् । तदभावात्कुतः प्रमेयसिद्धिः ।
व्याप्ता,
१. 'किं च, असौ ज्ञातृव्यापारः कारकजन्यः तदजन्यो वा ? न तावत्तद-जन्यः ; तथाहि--- ज्ञातृव्यापारो न कारकाजन्यः व्यापारत्वात्, पाचकादिव्यापारवत् । किं च, असौ तदजन्यः सन् भावरूपः, अभावरूपो वा स्यात् ? अभावरूपत्वे अर्थप्रकाशनलक्षणफलजनकत्वविरोधः । अविरोधे वा फलार्थिनः कारकान्वेषणमफलमेव स्यात्, विश्वमदरिद्रं च स्यात् कारणाभावादेवाऽखिलप्राणिनामभिमतफलसिद्धेः । अथ भावरूप:; तत्रापि किमसो नित्यः, अनित्यो वा ? नित्यत्वे सर्वस्य सर्वपदार्थ प्रतिपत्तिप्रसङ्गात् प्रदीपादिकारकान्वेषणवैयर्थ्यम्, अन्धसुप्तादिव्यवहारोच्छेदानुषङ्गश्च स्यात् । अथानित्यः'''' -तथाप्यसौ कालान्तरस्थायी, क्षणिको वा ? प्रथमपक्षे - " क्षणिका हिसा न कालान्तरमवतिष्ठते" इति वचो विरुद्ध्यते, द्वितीयपक्षे तु क्षणादूर्ध्व अर्थप्रतिभासाभावप्रसङ्गात् अन्धमूकं जगत् स्यात् । - न्यायकु० पृ० ४४ । प्रमेयक० पृ० २३ । २. 'नच नित्यैकरूपस्यापरिणामिनो ज्ञातुरन्यस्य वा व्यापारादिकार्यकारित्वं घटते । एतच्च " अर्थक्रिया न युज्येत नित्यक्षणिकपक्षयोः” प्रपञ्चतः प्रतिपादितमस्ति । - न्यायकु० पृ० ४५ । 'अर्थक्रिया न युज्येत नित्यक्षणिकपक्षयोः । क्रमाक्रमाभ्यां भावानां सा
"
लक्षणतया मता ॥ लघीयस्त्रय का० ८ ।
1. 'निवर्त्तेत' पाठः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org