________________
-१.६४]
इन्द्रियवृत्ति-परीक्षा [सांख्याभिमताया इन्द्रियवृत्तः प्रामाण्यनिरास:-] ६४. नापीन्द्रियवृत्तिः प्रमाणम् , अर्थप्रमितौ साधकतमत्वायोगात् । तदयोगस्त्वचेतनत्वात् । न ह्यचेतनोऽर्थः1 करणम्,
१. तुलना-'एतेनेन्द्रियवृत्तिःप्रमाणमित्यभिदधानः सांख्यः प्रत्याख्यातः। ज्ञानस्वभावमुख्यप्रमाणकरणत्वात् तत्रोपचारतः प्रमाणव्यवहाराभ्युपगमात् ।' -~-प्रमेयक०पृ० १९ । 'इन्द्रियवृत्तेः अर्थप्रमितौ साधकतमत्वेन प्रामाण्योपपत्तेः। इन्द्रियाणां हि वृत्तिः विषयाकारपरिणतिः। न खलु तेषां प्रतिनियतशब्दाद्याकारपरिणतिव्यतिरेकेण प्रतिनियतशब्दाद्यालोचनं घटते । अतो विषयसम्पर्कात् प्रथममिन्द्रियाणां ताद्रूप्यापत्तिः इन्द्रियवृत्तिः, तदनु विषयाकारपरिणतेन्द्रियवृत्त्यालम्बना मनोवृत्तिः । अथ कस्मान्मनोवृत्तिः अक्षवृत्त्यालम्बना न शब्दाद्यालम्बना ? इति चेत्; अबहिर्वृत्तित्वात्, अन्यथा बाह्येन्द्रियकल्पनानर्थक्यं स्यात्, इत्यभिदधानः सांख्योऽप्यतेनैव प्रत्याख्यातः । अचेतनस्वभावाया इन्द्रियवृत्तेरप्युपचारादन्यतोऽर्थप्रमितो साधकतमत्वानुपपत्तेः ।'-न्यायकु० पृ. ४० । 'रूपादिषु पञ्चानामालोचनमात्रमिष्यते वृत्तिः।-सांख्यका० २८ । 'बुद्धिरहङ्कारो मनः चक्षुः इत्येतानि चत्वारि युगपद् रूपं पश्यन्ति, अयं स्थाणुः अयं पुरुषः इति"एवमेषां युगपच्चतुष्टयस्य वृत्तिः"क्रमशश्च-एवं बुद्धि-अहङ्कार-मनश्चक्षुषां क्रमशो वृत्तिदृष्टा, चक्षू रूपं पश्यति, मनः संकल्पयति, अहङ्कारोऽभिमानयति बुद्धिरध्यवस्यति।'-माठरवृ० पृ. ४७ । 'इन्द्रियप्रणालिकया अर्थसन्निकर्षण लिङ्गज्ञानादिना वा आदी बुद्धेः अर्थाकारा वृत्तिः जायते ।'-सां० प्र० भा० पृ० ४७ । 'इन्द्रियप्रणालिकया चित्तस्य बाह्य वस्तूपरागात् तद्विषया सामान्यविशेषात्मनोऽर्थस्य विशेषावधारणप्रधाना वृत्तिः प्रत्यक्षम् ।'-योगद. व्यासभा० पृ. २७ । 'प्रमाता चेतनः शुद्धः प्रमाणं वृत्तिरेव च । प्रमाऽर्थाकारवृत्तीनां चेतने प्रतिबिम्बनम् ।'-योगवा० पू० ३० ।
1. 'अचेतनोऽर्थकरणं' पाठः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org