________________
प्रमाणप्रमेयकलिका
[१. ६५पटवत् । अचेतनत्वमिन्द्रियवृत्तेरिन्द्रियाणामचेतनत्वात । अचेतनत्वं तेषां प्रकृतिपरिणामत्वात् । तथा चोक्तम्-'प्रकृतेमहान्... [सांख्यका-२२] इति । ततो नेन्द्रियवृत्तरर्थमितौ साधकतमत्वम, स्वप्रमितावसाधकतमत्वाद्, घटादिवत् ।
६५. किं च, इन्द्रियवृत्तिरिन्द्रियेभ्यो भिन्नाऽभिन्ना वा भिन्ना चेत्, कथमिन्द्रियवृत्तिः, अतिप्रसंगात् । भेदे सतीन्द्रियाणामेवेयं वृत्तिर्नान्येषामित्येतत्कथं प्रामाण्यप्रपश्चतामश्चति । अथाभिन्ना चेत् , तर्हि इन्द्रियाण्येव वृत्तिरेव वा भवति । ततो नेन्द्रियवृत्तिः प्रमाणतामुपढौकते । तथा च नेन्द्रियवृत्तिः प्रमाणम , ज्ञानेन व्यवहितत्वात् , यद्येन व्यवहितं तन्न तत्र प्रमाणम् , यथा कुठारेण
१. तुलना---'तथाप्यसो तेभ्यो भिन्ना, अभिन्ना वा स्यात् ? यद्यभिन्ना श्रोत्रादिमात्रमेव सा, तच्च सुषुप्तादावप्यस्तीति सुप्त-प्रबुद्धयोरविशेषप्रसङ्गात् तद्व्यवहाराभावः स्यात् । अथ भिन्ना; किमसो तत्र सम्बद्धा,असम्बद्धा वा ? यद्यसम्बद्धा; कथं श्रोत्रादेरियं वृत्तिरिति व्यपदिश्येत ? यद् यत्रासम्बद्धं न तत् तस्येति व्यपदिश्यते,यथा सह्ये विन्ध्यः,असम्बद्धा च श्रोत्रादिना वृत्तिरिति। अथ सम्बद्धा; किं समवायेन,संयोगेन, विशेषणभावेन वा ?."तस्माद् इन्द्रियवृत्तेविचार्यमाणायाः सत्त्वासम्भवात् कथं "विषयाकारपरिणतेन्द्रियवृत्त्यालम्बना मनोवृत्तिः' इति सुघट स्यात् । इन्द्रियवृत्तेविषयाकारपरिणतत्वानुपपत्तो मनोवृत्तेस्तदालम्बनत्वानुपपत्तेः ।'-न्यायकु० पृ० ४१ । प्रमेयकम० पृ० १९ । 'तस्मादित्थं इन्द्रियवृत्तेविचार्यमाणायाः सत्त्वासम्भवात् कथं विषयाकारपरिणतेन्द्रियवृत्त्यालम्बना मनोवृत्तिः इति सुघट स्यात् ।' -स्याद्वादरत्ना० पृ० ७३ ।
1. 'प्रकृतिमहानिति' । 2. 'प्रामाण-प्रपञ्चता'पाठः । ३. 'अथाभिन्ना चेत्' इत्ययं पाठो मूले नास्ति, परं प्रकरणवशादसावावश्यकः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org