________________
-१.६६]
इन्द्रियवृत्ति-परीक्षा व्यवहितोऽयस्कारादिः, ज्ञानेन व्यवहिता चेन्द्रियवृत्तिस्तस्मानार्थप्रमितौ करणम्।
६६. अथेदमुच्यते-कथमर्थपरिच्छित्तौ साक्षाज्ज्ञानस्य साधकतमत्वम्, येनेन्द्रियवृत्तेस्तेन व्यवहितत्वात् साधकतमत्वं नेष्यते । सत्यमेतदेव, एतद्भवताभ्युपगमात् । यच्चाभ्युपगतमपि न बुद्धयते, तत्र कोऽन्यो हेतुरन्यत्र महामोहात् । यदुक्तं भवताऽपि---"इन्द्रियाण्यर्थमालोचयन्ति, इन्द्रियालोचितमर्थमहङ्कारोऽभिमन्यते, अहकाराभिमतमर्थ बुद्धिरवधारयति, बुद्धधध्यवसितमर्थ पुरुषश्वेतयते ।" [ ]।
१. अयं भाव:-इन्द्रियाणामज्ञानरूपत्वात्तद्वृत्तेरप्यज्ञानरूपत्वेन प्रमाणत्वायोगात् । ज्ञानरूपमेव हि प्रमाणं भवितुमर्हति,तस्यवाज्ञाननिवर्तकत्वात्, प्रदीपादिवत् । इन्द्रियाणां चक्षुरादीनां वृत्तिर्हि तदुद्घाटनादिरूपो व्यापारः, स च जडस्वरूपः । न हि तेनाज्ञाननिवृत्तिः सम्भवति घटादेरिव । तस्मादिन्द्रियवृत्तेरज्ञाननिवृत्तिरूपप्रमा प्रति करत्वाभावान्न प्रमाणत्वमिति ।
२. "स्वार्थमिन्द्रियाणि आलोचयन्ति मनः संकल्पयति अहङ्कारोऽभिमन्यते बुद्धिरध्यवस्यति इति ।"- सि० वि० पृ० ५८१, उद्धृतम् । “इन्द्रियाण्यर्थमालोचयन्ति, अहङ्कारोऽभिमन्यते, मनः संकल्पयति, बुद्धिरध्यवस्यति, पुरुषश्चेतयते ।"--सि० वि० पृ० ५८१, उद्धतम् ।
'बुद्धयध्यवसितं यस्मादर्थं चेतयते पुमान् । इतीष्टं चेतना चेह संवित् सिद्धा जगत्त्रये ॥'
-योगबिन्दु श्लोः ४४४, पृ० ७५ ।
1. 'अहङ्कारामभिमतं' पाठः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org