________________
· प्रमाणप्रमेयकलिका
[१.६७तस्मान्नेन्द्रियवृत्तिः प्रमाणम् । [ भट्टजयन्ताभिमतस्य कारकसाकल्यस्य प्रामाण्यनिरासः-] ६७. नापि कारकसाकल्यम्, तस्य स्वरूपेणैवासिद्धत्वात् ।
१. तुलना-'अव्यभिचारिणीमसन्दिग्धामर्थोपलब्धिं विदधती बोधाऽबोघस्वभावा - सामग्री प्रमाणम् । बोधाऽबोधस्वभावा हि तस्य स्वरूपम, अव्यभिचारादिविशेषणार्थोपलब्धिसाधनत्वं लक्षणम् ।' –न्यायमं० पृ० १२. कारकसाकल्यापरनामिकां सामग्री प्रमाणयन् भट्टजयन्तो न्यायमन्जर्याम् तामेव सामग्री प्रमाणत्वेन समर्थयन्नाह--'यत एव साधकतमं करणं करणसाधनश्च प्रमाणशब्दः, तत एव सामग्यः प्रमाणत्वं युक्तम् । तद्वयतिरेकेण कारकान्तरे क्वचिदपि तमबर्थसंस्पर्शाऽनुपपत्तेः । अनेककारकसन्निधाने कार्यं घटमानं, अन्यतरव्यपगमे च विघटमानं कस्मै अतिशयं प्रयच्छेत् । न चातिशयः कार्यजन्मनि कस्यचिदवधार्यते सर्वेषां तत्र व्याप्रियमाणत्वात्। स च सामग्यान्तर्गतस्य न कस्यचिदेकस्य कारकस्य कथयितुं पार्यते । सामग्यास्तु सोऽतिशयः सुवचः ; सन्निहिता चेत् सामग्री सम्पन्नमेक फलम् इति सैव अतिशयवती।'-न्यायमं० पृ० १२-१३ । भट्टजयन्तः पुनरपि तामेव प्रमाणयन्नाह-'यत्तु किमपेक्षं सामन्यः करणत्वम् इति; 'तदन्तर्गतकारकापेक्षम्' इति ब्रूमः । कारकाणां धर्मः सामग्री न स्वरूपहानाय तेषां कल्पते, साकल्यदशायामपि तत्स्वरूपप्रत्यभिज्ञानात्"""तस्मात् अन्तर्गतकारकापेक्षया लब्धकरणस्वभावा सामग्रो प्रमाणम् ।'-न्यायमं० पृ० १३ । अस्य कारकसाकल्यस्य प्रमेयकमलमातण्ड-न्यायकुमुदचन्द्र-न्यायविनिश्चयविवरण-स्याद्वादरत्नाकरप्रभृतिषु जैनग्रन्थेषु विस्तरतः समालोचना समुपलभ्यते । तथाहि-तत्र प्रमाणस्य 'ज्ञानम्' इति विशेषणेन 'अव्यभिचारादिविशेषण
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org