________________
-- १. ६ ७]
कारकसाकल्य-परीक्षा तत्स्वरूपं हि किं सकलान्येव कारकाणि, तद्धर्मो वा, तत्कार्य वा, पदार्थान्तरं वा, गत्यन्तराभावात् । न तावदाद्यः, सकलानां कार
विशिष्टार्थोपलब्धिजनकं कारकसाकल्यं साधकतमत्वात् प्रमाणम्' इति प्रत्याख्यातम्; तस्याज्ञानरूपस्य प्रमेयार्थवत् स्वपरपरिच्छित्तौ साधकतमत्वाभावतः प्रमाणत्वायोगात्, तत्परिच्छित्तौ साधकतमत्वस्याऽज्ञानविरोधिना ज्ञानेन व्याप्तत्वात् ।""ततो यद्वोधाऽबोधरूपस्य प्रमाणत्वाभिधानकम्-"लिखितं साक्षिणो भुक्तिः प्रमाणं त्रिविधं स्मृतम् ।" इति, तत्प्रत्याख्यातम् ज्ञानस्यवानुपचरितप्रमाणव्ययदेशाहत्वात् । तथा हि-यद्यत्राऽपरेण व्यवहितं न तत्तत्र मुख्यरूपतया साधकतमव्यपदेशाहम्, यथा हि च्छिदिक्रियायां कुठारेण व्यवहितोऽयस्कारः । स्वपरपरिच्छित्तौ विज्ञानेन व्यवहितं च परपरिकल्पितं साकल्यादिकम् इति । तस्मात् कारकसाकल्यादिकं साधकतमव्यपदेशाहँ न भवति ।' -प्रमेयक० पृ० ७, ८, ९। न्यायकु० पृ० ३३, ३४, ३५, । स्याद्वादरत्नाकर पृ० ६२, ६३, ६४ । न्यायवि० वि० पृ० ६०-६१ ।
१. "किंच, स्वरूपेण प्रसिद्धस्य प्रमाणत्वादिव्यवस्था स्यान्नान्यथा; अतिप्रङ्गात् । न च साकल्यं स्वरूपेण प्रसिद्धम् । तत्स्वरूपं हि सकलान्येव कारकाणि, तद्धर्मो वा स्यात्, तत्कार्यं वा, पदार्थान्तरं वा गत्यन्तराभावात्।'प्रमेयक० पृ० ९ । २. 'न तावत्सकलान्येव तानि साकल्यस्वरूपम्; कर्तृ कर्मभावे तेषां करणत्वानुपपत्तेः । तद्भावे वा-अन्येषां कर्तृकर्मरूपता, तेषामेव वा ? न तावदन्येषाम, सकलकरकव्यतिरेकेणान्येषामभावात् । भावे वा न कारकसाकल्यम्, । नापि तेषामेव कर्तृकर्मरूपता, करणत्वाभ्युपगमात् । न चैतेषां कर्तृकर्मरूपाणामपि करणत्वं परस्परविरोधात् । कर्तृता हि ज्ञान-चिकीर्षा-प्रयत्नाधारता स्वातन्त्र्यं वा, निर्वादिधर्मयोगित्वं कर्मत्वम्, करणत्वं तु प्रधानक्रियाऽनाधारत्वम्, इत्येतेषां कथमेकत्र सम्भवः । तन्न सकलकारकाणि साकल्यम् ।'-प्रमेयक पृ० ९ । 'किं च, समना एव
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org