________________
१२ प्रमाणप्रमेयकलिका
[१.६७-: काणामेकत्रैकदा संभवाऽभावात् कथं साकल्यं नाम; तेषां परस्परविरोधात् । साकल्यं हि नाम प्रमाणं, तेन च करणेन भवितव्यम् । यदा तस्य कर्तृ-कर्मरूपताऽङ्गीक्रियते तदा न करणत्वम् । करणत्वे वा न कर्तृ-कर्मरूपता; कर्तृ-कर्म-करणानां सहावस्थानाभावात् , शीतोष्णवत् ।
८. किं च, सकलान्येव कारकाणि तेषां भावः साकल्यं तदित्थं न संबोभवीति । तन्न सकलान्येव कारकाणि साकल्यम् ।
६६. नापि तद्धर्मः, स हि संयोगोऽन्यो वा । न तावत्संयोगः,
सामग्री, समग्राणां धर्मो वा । तत्राद्यपक्षे सर्वेषां फलं प्रति अन्वयव्यतिरेकानुविधानात् 'कस्य करणता' इति न विद्मः । करणं हि साधकतमम्, तमार्थश्च प्रकर्षः कार्य प्रति अव्यवधानेन व्यापारः, स चेत् सर्वेषां तुल्यस्तदा कथं कस्यचिदेव करणत्वं सिद्धयेत् ।'-न्यायकु० पृ० ३७ । १. "
किच, समग्राणां भावः सामग्री, भावशब्देन च तेषां सत्ता,स्वरूप. मात्रम्, समुदायः, सम्बन्धः, ज्ञानजनकत्वं वाऽभिधीयेत, प्रकारान्तराभावात् ? तत्राद्यविकल्पद्वये अतिप्रसंगः ; व्यस्तावस्थायामपि तत्सत्तायाः स्वरूपस्य च सद्भावतः प्रामाण्यप्रसंगात् । समुदायोऽपि एकाभिप्रायतालक्षणः, एकदेशे मिलनस्वभावो वा ? तत्राद्यपक्षोऽनुपपन्नः। विषयेन्द्रियादेः निरभिप्रायत्वात् । द्वितीयपक्षोऽप्ययुक्तः, चन्द्रार्कादिविषयस्य इन्द्रियादेश्च एकदेशे मिलनाsसम्भवात् । सम्बन्धपक्षोऽपि अनेनैव प्रत्याख्यातः ; चन्द्रादेश्चक्षुरादिना सम्बन्धाभावात्, तस्याप्राप्यकारित्वात् । अथ ज्ञानजनकत्वं भावशब्देनामिधीयते; तहि प्रमातृ-प्रमेययोरपि प्रमाणत्वप्रसङ्गः, तज्जनकत्वाविशेषात्, तथा च प्रतीतिसिद्धतद्वयवस्थाविलोप: स्यात् ।'-न्यायकु० पृ० ३७ । २. 'नापि तद्धर्म:-स हि संयोगः, अन्यो वा ? संयोगश्चेत्; न; अस्यानन्तरं विस्तरतो निषेधात् । अन्यश्चेत्, नास्य साकल्यरूपता, अतिप्रसङ्गात्, व्यस्तार्थानामपि तत्सम्भवात् ।'-प्रमेयक० पृ० ९ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org