________________
-१.६१०]
कारकसाकल्य-परीक्षा तेषां तदसंभवात्, परस्परविरुद्धानामेकत्रावस्थानाभावाच्छीतोष्णादीनामिव, कथं नाम संयोगः प्रमाणतामश्चति । नाप्यन्यः, तस्य साकल्यरूपत्वेऽतिप्रसंगात् । व्यस्तार्थानामपि तत्सम्भवात् । किं चासौ' कारकेभ्योऽव्यतिरिक्तो व्यतिरिक्तो वा। यद्यव्यतिरिक्तस्तदा धर्ममात्रम्, कारकमात्रं वा स्यात् । व्यतिरिक्तश्चेत्, सम्बन्धासिद्धिः । व्यतिरिक्ते सति यथा कारकैः सह संबध्यते तथा पदार्थान्तरः सह संबन्धः कथं न स्यात् । तस्मात्संबन्धासम्भवात् कथं नाम कारकाणां धर्मः प्रमाणम्। ततश्च न धर्मोऽपि साकल्यम् ।
६१०. नापि तत्कार्यम्, तत्कार्यत्वस्यासंभवात् । तदसंभवश्व तेषां नित्यत्वात् । कथमेवमिति चेत; नित्यत्वे तत्कार्यकरणकस्वभावत्वे च सर्वदा तदुत्पत्तिप्रसंगात् । अतत्स्वभावत्वे च न वचित्कदाचित्कथंचिदपि तेभ्यः साकल्यलक्षणकार्योत्पत्तिः स्यात् । अथेदमुच्यते -नित्यत्वे तत्कार्यकरणैकस्वभावत्वे च सहकारिसव्यपेक्षतया न तेभ्यः सर्वदा कार्योत्पत्तिप्रसंगः इत्यभिमन्यमानो न निर्मलमना मनीषिभिरनुमन्यते, सहकारिणां नित्यं प्रत्यनुपकारित्वात् । उपकारित्वे शाश्वतेभ्यस्तभिन्नः क्रियते, अभिन्नो वा।
१. 'किं चासो कारकेभ्योऽव्यतिरिक्तो व्यतिरिक्तो वा? यद्यव्यतिरिक्तः तदा धर्ममात्रं कारकमानं वा स्यात् । व्यतिरिक्तश्चेत्संबन्धासिद्धिः ।'
-प्रमेयक० पृ० ९ । २. 'नापि तत्कायं साकल्यम्; नित्यानां तज्जननस्वभावत्वे सर्वदा तदुत्पत्तिप्रसक्तिः, एकप्रमाणोत्पत्तिसमये सकलतदुत्पाद्यप्रमाणोत्पत्तिश्च स्यात् ।'-प्रमेयक० पृ० १०। ३. 'सहकारिसव्यपेक्षाणां जनकत्वाद्देशकालस्वभावभेदः कार्ये न विरुद्धयत इत्यपि वार्तम् ; नित्यस्यानुपकार्यतया सहकार्यपेक्षाया अयोगात् ।'–प्रमेयक० पृ० ११ ।
1. 'सासनेभ्यः' पाठः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org